________________
सार-समुच्चयः । शत्रुभावस्थितान् यस्तु करोति वशवर्तिनः। प्रज्ञाप्रयोगसामथ्यात् स शूरः स च पंडितः ॥२९॥ विवादो हि मनुष्याणां धर्मकामार्थनाशकत् । वैरान् बन्धुजनो नित्यं वाहितुं कर्मणा जनाः।।२९१॥ धन्यास्ते मानवा नित्यं ये सदा क्षमया युताः । । वंचमाना स ? वै लुब्धा विवादं नेवकुर्वते ॥२९२॥ वादेन बहवो नष्टा येऽपि द्रव्यमहोत्कटाः । वरमर्थपरित्यागो न विवादः खलैः सह ॥२९३॥ अहंकारो हि लोकाना विनाशाय न वृद्धये । यथा विनाशकाले स्थात् प्रदीपस्य शिखोज्वला ॥२९४॥ हीनयोनिषु बंभ्रम्य चिरकालमनेकधा । उच्चगोत्रे सकृत्प्राप्ते कोऽन्यो मानं समुद्हेत् ॥ २९५॥ रागद्वेषौ महाशत्रू मोक्षमार्गमलिम्लुचौ । ज्ञानव्यानतपोरन हरतः सुचिरार्जितम् ।। २९६ ॥ चिरं गतस्य संसारे बहुयोनिसमाकुले। प्राप्ता सुदुर्लभा बोधिः शासने जिनभापिते ॥ २९७ ॥ अधुना तां समासाद्य संसारच्छेदकारिणीम् । प्रमादो नोचितः कर्तु निमेषमपि धीमता ।। २९८॥ प्रमादं ये तु कुर्वन्ति मूढा विषयलालसाः । नरकादिषु तिर्यक्षु ते भवन्ति चिरं नराः ॥२९९ ।। आत्मा यस्य वशे नास्ति कुतस्तस्य परे जनाः। आत्माधीनस्य शान्तस्य त्रैलोक्यं वशवर्तिनः ॥३०॥
१ बन्धजन नापि नित्य नाहितकर्भणां ख. । २ वातनं ख ।