________________
सिद्धान्तसारादिसंग्रहे
देशगुणस्थानानि । सण्णा - चतस्रः संज्ञाः । पञ्जत्ती- प्रदूपर्याप्तयः । पाण- दशद्रव्यप्राणाः । मम्गणणव इति-नवसंख्योपेता मार्गणाः । एतैः ऊणे-ऊनान् रहितानित्यर्थः ॥ १ ॥
२
सिद्धाणं सिद्धगई दंसण णाणं च केवलं खइयं । सम्मत्तमणाहारे सेसा संसारिए जीवे ॥ २ ॥
सिद्धानां सिद्धगतिः दर्शनं ज्ञानं च केवलं क्षायिकं । सम्यक्त्वमनाहारकं शेषाः संसारिणि जीवे ॥
..
नमस्कारगाथायां प्रोक्तं मार्गणानवरहितान् सिद्धान् नत्वा, तर्हि लिद्वेषु पंच काः सन्तीत्याशंकायामाह – सिद्धाणं सिद्धगई इत्यादि । सिद्धानां सिद्धगतिः स्यात् । सिद्धगतिरिति कोऽर्थ: : सिद्धपर्यायप्रातिरित्यर्थः । दत्येका मार्गमा सिते वर्तते । तथा, सण गाणं च केवलं खइयं -- केवलशब्दः प्रत्येकमभिसम्बध्यते, सिद्धानां केवलदर्शनमिति सिद्धेषु द्वितीया मार्गणा वर्तते । केवलज्ञानमिति तृतीया मार्गणा सिद्धेषु स्यात् । सम्मत्तमणाहारे - सिद्धानां क्षायिकं सम्यक्वं चतुर्थी मार्गणा सिद्धेषु विद्यते । सिद्धानामनाहरकत्वं पंचमी मार्गणा सिद्धेषु भवति । तात्पर्यमाह - इत्युक्त पंचमार्गणा सहितान् नवमार्गणारहितान् सिद्धान् नत्वेत्यर्थः । सेसा संसारिए जीवे - शेषा उद्धरिता मार्गणाः संसारिषु वर्तन्ते । अथवा असेसा संसारिए जीवेये के संसारिणो जीवा वर्तन्ते तेषु अशेषाश्चतुर्दशमार्गणा स्युरित्यर्थः ॥ २ ॥
अथ प्रथमसूत्रपातनिकामाह; -
7
१ द्वारा इत्यन्यत्र । ९ संखि इस्मा' इति पुस्तकें पाठः । ३ शब्द इत्यविभस्म्यन्तः पाठः पुस्तके |