________________
-
-
-
-
-
-
-
-
सार-समुच्चयः ।
२५१ भयं याहि भवाद्भीमात् प्रीति च जिनशासने । शोक पूर्वकृतात्पापाद्यदीच्छेद्धितमात्मनः ॥२६८|| कुसंसर्गः सदा त्याज्यो दोषाणां प्रविधायकः । सगुणोऽपि जनस्तेन लघुतां याति तत्क्षणात् ॥२६९|| सत्सङ्गो हि युधैः कार्यः सर्वकालसुखप्रदः । तेनैव गुरुतां याति गुणहीनोऽपि मानवः ॥२७॥ साधूनां खलसंन चेथित मालनं भवेत् । सैहिकेयसमाशक्या भाव्यं भावोरपि क्षयः ? ॥२७१॥ ग़गादयो महादोषाः खलास्ते गदिता बुधैः। तेषां समाश्रयस्ताज्यस्तत्वद्विद्भिः सदा नरैः ॥२७२।। गुणाः सुपूजिता लोके गुणाः कल्याणकारकाः । गुणहीना हि लोकेऽस्मिन् महान्तोऽपि मलीमसाः॥२७३।। सद्गुणैः गुरुतां याति कुलहीनोऽपि मानवः । निर्गुणः सकुलाढयोपि लघुतां याति तत्क्षणात् ।।२७४॥ सत्तः पूज्यते देवैराखण्डलपुरःसरैः। असद्वृत्तस्तु लोकेऽस्मिन्निन्द्यतेऽसौ सुरैरपि ॥२७५।। चारित्रं तु समादाय ये पुनर्भोगमागताः । ते साम्राज्यं परित्यज्य दास्यभावं प्रपेदिरे ।।२७६।। शीलसंधारिणां पुसां मनुष्येषु सुरेषु च । आत्मा गौरवमायाति परत्रेह च संततं ॥२७७॥ आपदो हि महाघोराः सत्वसाधनसंगतैः । निस्तीर्याय महोत्साहैः शीलरक्षणतत्परः ॥२७८।। १ सैहिकेयारसमासक्तया भत्याभागोऽपि क्षया ख. । २ निस्तीयते स्व.।