________________
२४८
सिद्धान्तसारादिसंग्रहेअर्थो मूलमनर्थानामों नितिनाशनम् । कपायोत्पादकश्चार्थो दुःखानां च विधायकः ।। २३६ ॥ प्राप्तोज्झितानि वित्तानि त्वया सर्वाणि संसतो। पुनस्तेषु रतिः कष्टा मुक्तवान्त इवौदने ॥ २३७ ॥ को वा वित्तं समादाय परलोकं गतः पुमान् । येन तृष्णाग्निसंतप्तः कर्म बध्नाति दारुणम् ।। २३८ ॥ तृष्णान्धा नैव पश्यन्ति हितं वा यदि वाहितम् । युन्सोपाजनमाणाध महाशि राशियो जगः ! २३९ ।। सन्तोषसारसद्रत्नं समादाय विचक्षणाः । भवन्ति सुखिनो नित्यं मोक्षसन्मार्गवर्तिनः ॥२४॥ तृष्णानलप्रदीप्तानां सुसौख्यं तु कुतो नृणाम् । दुःखमेव सदा तेषां ये रता धनसंचये ॥ २४१॥ सन्तुष्टाः सुखिनो नित्यमसन्तुष्टाः सुदुःखिताः । उभयोरन्तरं ज्ञात्वा सन्तोषे क्रियतां रतिः ।। २४२ ॥ द्रव्याशां दूरतस्त्यक्त्वा सन्तोपं कुरु सन्मते ! । मा पुनर्दीर्घसंसारे परिष्यसि निश्चितम् ।। २४३ ।। ईश्वरो नाम सन्तोषी यो प्रार्थयते परम् । प्रार्थनां महतामत्र परं दारियकारणम् ॥ २४४॥ हृदयं दह्यतेऽत्यर्थ तृष्णाग्निपरितापितं । न शक्यं शमनं कर्तुं विना सन्तोषचारिणा ॥ २४५ ॥ यैः सन्तोषामृतं पीतं निर्ममत्वेन वासितं । त्यक्तं तैर्मानसं दुःखं दुर्जनेनेव सौहृदं ॥ २४६ ॥ १ कष्टं ख. । २ कियते क । ३ सन्तोषोदकं ख. १ ४ दुर्जनेनैव क।