________________
सार-समुच्चयः ।
२४७
सप्तभीस्थानमुक्तानां यत्रास्तमितशायिनाम् । त्रिकालयोगयुक्तानां जीवितं सफलं भवेत् ॥२२५।। आनरौद्रपरित्यागाद् धर्मशुक्लसमाश्रयात् । जीवः प्राप्नोति निर्वाणमनन्तसुखमच्युतं ॥२२६॥ आत्मानं विनयाम्याशु विपयेषु परामखः । साधयेत्स्वहितं प्राज्ञो ज्ञानाभ्यासरतो यतिः ॥२२७॥ यथा संगपरित्यागस्तथा कर्मविमोचनम् । यथा च कर्मणां छेदस्तथासन्न परं पदम् ।।२२८॥ यत्परित्यज्य गन्तव्यं तत्स्वकीयं कथं भवेत् । इत्यालोच्य शरीरेऽपि विद्वान् तां च परित्यजेत् ॥२२९।। नूनं नात्मा प्रियस्तेषां ये रताः संगसंग्रहे । समासीनाः प्रकृतिस्थाः स्वीकतु नवशक्य ॥२३०॥ शरीरमात्रसंगेन भवेदारंभवर्धनम् । तदशाश्वतमत्राणं तस्मिन् विद्वान रतिं त्यजेत् ॥२३१॥ संगात्संजायते गृद्धिगुद्धौ वाञ्छति संचयम्। संचयाद्वर्धते लोभो लोभाःखपरंपरा ।।२३२।। ममत्वान्जायते लोभो लोभाद्रागश्च जायते । रागाच्च जायते द्वेषो द्वेषादःखपरंपरा ॥२३३।। निर्ममत्वं परं तत्वं निर्ममत्वं परं सुखं । निर्ममत्वं परं बीजं मोक्षस्य कथितं बुधैः ॥२३४|| निर्ममत्वे सदा सौख्यं संसारस्थितिच्छेनम् ।
जायते परमोत्कृष्टमात्मनः संस्थिते सति ॥२३५॥ १ दिनयाभ्यासे ख, । २ विद्वानाशी परित्यजेत ख. । ३ मंत्राणां क, मात्राणां
ख.। ४ भेदन क. ।