________________
२४६
सिद्धान्तसारादिसंग्रहे
--
-
-
-
-
-
-
-
-
इन्द्रियाणां जये शूराः कर्मबन्धे च कातग़ः। तत्वाथाहितचेतस्काः स्वशरीरजप निस्ग्रहाः ॥२१४ ॥ परीपहमहारातिवन निदेलनक्षमाः | कषायविजये शूराः स शूर इति कथ्यते ॥२१५॥ संसारध्वंसिनी चया ये कुर्वति सदा नराः । रागद्वेषहतिं कृत्वा ते यान्ति परमं पदम् ॥ २१६ ॥ मलैस्तु रहिता धीरा मलदग्धोङ्गयष्टयः । सब्रह्मचारिणो नित्यं ज्ञानाभ्यास सिपेविरे ॥२१७ ।। ज्ञानभावनया शक्ता निभृतेनान्तरात्मनः । अप्रमत्तं गुणं प्राप्य लभन्ते हितमात्मनः ।। २१८॥ संसारावासभीरूणां त्यक्तान्तर्बाह्यसंगिनाम् । विषयेभ्यो निवृत्तानां शाध्य तेषां हि जीवितम्।।२१९॥ समः शत्रौं च मित्रे च समो मानापमानयोः । लाभालाभे समो नित्यं लोष्ठकांचनयोस्तथा ।। २२० । सम्यक्त्वभावनाशुद्धं ज्ञानसेवापरायणं । चारित्राचरणासक्तमक्षीणसुखकाक्षिणम् ।।२२१॥ ईदृशं श्रमणं दृष्ट्वा यो न मन्येत दुष्टधीः । नृजन्मनिष्फलं सारं संहारयति सर्वथा ||२२२।। रागादिवजनं सङ्गं परित्यज्य दृढव्रताः। धीरा निर्मलचेतस्काः तपस्यन्ति महाधियः ॥२२३३॥ संसारोद्विग्नचित्तानां निःश्रेयससुखैषिणाम् । सर्वसंगनिवृत्तानां धन्यं तेषां हि जीवितम् ॥२२४॥ १ परमां गति स.। २ दिग्धा. ख.। ३ सिक्का स्व.। ४ निभृतैरन्तरा मन: स. । ५ परित्यक क. प्रपश्यन्ति क. । ७.महधियाः क. ।