________________
सार-समुच्चयः |
परीषजये शक्तं शक्त कर्मपरिशये । ज्ञानभ्यःनतपोभूषं शुद्धाचारपरायणं ।। २०३ ।। प्रशान्तमानसं सौख्यं प्रशान्तकरणं शुभं । प्रशान्तारिमहामोहकामक्रोधनिमुदनम् ॥ २०४ ॥ निन्दास्तुतिसमं धीरं शरीरेऽपि च निस्पृहं । जितेन्द्रियं जितक्रोधं जितलोभ महाभयं ॥ २०५ ॥ रागद्वेषविनिर्मुक्तं सिद्धिसंगमनोत्सुकम् । ज्ञानभ्यसरतं नित्यं नित्यं च प्रशमे स्थितम् ॥ २०६॥ एवंविधं हि यो ट्वा स्वगृहाङ्गणमागतम् । मात्सर्यं कुरुते मोहात क्रिया तस्य न विद्यते ॥ २०७ ॥ चतुर्भिः मायां निरासिकां कृत्वा तृष्णां च परमौजसः । रागद्वेषौ समुत्मा प्रयाता पद्मक्षयम् ॥ २०८ ॥ धीराणामपि ते धीरा ये निराकुलचेतसः । कर्मशत्रु महासैन्यं ये जयन्ति तपोबलात् ।। २०९ ।। परीषहजये शूराः शूराश्रेन्द्रियनिग्रहे ।
कुलकम् ।
पायविजये शूरास्ते शूरा गदिता बुधैः || २१० ॥ नादत्ते नवं कर्म सच्चारित्रनिविष्टधीः । पुराणं निर्जयेद्वाढं विशुद्धध्यानसंगतः ।। २११ ।। संसारावासनिर्वृत्ताः शिवसौख्यसमुत्सुकाः । सद्भिस्ते गदिताः प्राज्ञाः शेषाः शस्त्रस्य वंचकाः ॥ २१२ ॥ समता सर्वभूतेषु यः करोति सुमानसः । समत्वभावनिको यात्यमी पदमव्ययम् ॥ २१३ ॥
१ ज्ञानभ्यासरतो । २ स्वार्थस्य ख ।
२४५