________________
२४२
सिद्धान्तसारादिसंग्रहे
आपत्सु सम्पतन्तीषु पूर्वकर्मनियोगतः । शौयमेन पर वाणं न युक्तमनुशोचनम् ।। १७१॥ विशुद्धपरिणामेन शान्तिर्भवति सर्वतः । संक्लिष्टेन तु चित्तेन नास्ति शान्तिर्भवेष्वपि ॥ १७२ ॥ सक्लिष्टचेतसां पुंसां माया संसारवर्धिनी । विशुद्धचेतसो वृत्तिः सम्पत्तिवित्तदायिनी ॥ १७३॥ यदा चित्तविशुद्धः स्यादापदः सम्पदस्तयों । समस्तत्वविदां पुंसां सर्व हि महतां महत् ॥ १७४ ।। परोऽप्युत्पथमापन्नो निषेद्धं युक्त एव सः । किं पुनः स्वमनोत्यर्थं विषयोत्पथयायिवत् ॥ १७५॥ अज्ञानाद्यदि मोहाद्यत्कृतं कर्म सुकुत्सितम् । व्यावत येन्मनस्तस्मात् पुनस्तन्न समाचरेत् ॥ १७६ ॥ अचिरेणैव कालेन फलं प्राप्स्यसि दुर्मते । विपारेऽतीव तिक्तस्य कर्मणो यत्त्वया कृतम् ॥१७७॥ वर्धमानं हितं कर्म संज्ञानाधो न शोधयेत् । सुप्रभूतार्णवसंग्रस्तः स पश्चात्परितप्यते ॥१७८॥ मुखभाचकते मूढाः किं न कुर्वन्ति मानवाः । येन सन्तापमायान्ति जन्मकोटिशतेष्वपि ।।१७९।। परं च वंचयामीति यो हि मायां प्रयुज्यते । - - -- - - - -.- -.-.
विशुद्धि. क। २ तदा ख.। ३ तत्वविदा पुसा ख. । ४ यत्कृतं क. ५ त्यस्तस्य कर्णय क. । ६ अस्मादने ख-पुस्तके लोकोऽयं
स्वल्गनैघ कालेन फलं प्राप्स्यसि यत्कृतं ।
शश्वदात्मकर्मम्यां गोपयत्सुमनागपि ॥१॥ ७ सुप्रभूतभूतसंग्रस्त ख. ! ८ कृता क. 1