________________
सिद्धान्तसारादिसंग्रहे
चतुर्गतिनिबन्धेस्मिन् संसारेऽत्यन्तभीतिदे। सुदानान्ममामानि अपना मिशिमोगतः ।। १४८ ॥ एवंविधमिदं कष्ट ज्ञात्वात्यन्तविनश्वरम ।। कथं न यासि वैराग्यं धिगस्तु तब जीवितम् ॥१४९॥ जीवितं विद्युता तुल्यं संयोगाः स्वप्नसन्निभाः । सन्ध्यारागसमः स्नेहः शरीरं तृणबिन्दुक्त ।। १५० ॥ शक्रचापसमा भोगाः सम्पदो जलदोपमाः। यौवनं जलरेखेव सर्वमेतदशाश्वतम् ।। १५१॥ समानयसो दृष्ट्वा मृत्युना स्ववशीकृताः । कथं चेतः समो नास्ति मनागपि हितात्मनः ॥ १५२ ।। सर्वाशुचिमये कांये नश्वरे व्याधिपीडिते । को हि विद्वान् रतिं गच्छेद्यस्थास्ति श्रुतसंगमः ॥१५३।। चिरं सुयोषितः कामो भोजनाच्छादनादिभिः । विकृतिं याति सोऽप्यन्ते कास्था बाह्येषु वस्तुषु ।।१५४।। नायातो बन्धुभिः साध न गतो बन्धुभिः समं । वृथैव स्वजने स्नेहो नराणां मूढचेतमाम् ॥ १५५ ॥ जातेनावश्यमर्तव्यं प्राणिना प्राणधारिणा । अतः कुरुत मा शोकं मृते बन्धुजने बुधाः ॥१५६ ।। आत्मकायें परित्यज्य परकार्येषु यो रतः । ममत्वरतचेतस्कः स्वहितं अंशमेष्यति ॥ १५७ ।। खहितं तु भवेज्ज्ञानं चारित्रं दर्शन तथा ।
तपःसंरक्षणं चैव सर्वविद्भिस्तदुच्यते ॥ १५८ ॥ १ वयसा क. । २ सर्वामयेन कायेन क. । ३ आत्माकार्य, पुस्तकद्वये । ४ ये रताः पुस्तकये । ५ चेतस्काः क-स्त्र. ६ स्वहिताशनेष्यति ख.।