________________
सार-समुच्चयः ।
२३९
.५५.v-rAAAA
कृमितुल्यैः किमस्माभिः भोक्तव्यं वस्तु दुस्तरं । तेनात्र गृहपंकेषु सीदामः किमनर्थकम् ।। १३७॥ येन ते जनितं दुःखं भवाम्भोधी सुद्धस्तरम् । कमारातिमताको विजेतुं कि नवासि ।। १३८ ॥ अब्रह्मचारिणो नित्यं मांसभक्षणतत्पराः । शुचित्वं तेऽपि मन्यन्ते किन्तु चिन्त्यमतःपरम् ॥१३९।। येन संक्षीयते कर्म संचयश्च न जायते । तदेवात्मविदा कार्य मोक्षसौख्याभिलापिणा || १४०॥ अनेकशस्त्वया प्राप्ता विविधा भोगसम्पदः । अप्सरोगणसंकीर्ण दिवि देव विराजिते ॥ १४१॥ पुनश्च नरके रौद्रे रौरवेऽत्यन्तभीतिदे । नानाप्रकारदुःखोघैः संस्थितोऽसि विधेर्वशात् ।। १४२ ।। तप्ततैलिकभल्लीषु पच्यमानेन यत्वया । संप्राप्तं परमं दुःखं तद्वक्तुं नैव पार्यते ॥ १४३ ।। नानायंत्रेषु रौद्रेषु पीडयमानेन यन्हिना। दुःसहा वेदना प्राप्ता पूर्वकर्मनियोगतः ॥१४४॥ विण्मूत्रपूरिते भीमे पूतिश्लेष्मावसाकुले । भूयो गर्भगृहे मातुर्दैवाद्यातोऽसि संस्थितिम् ॥ १४५ ।। तिर्यग्गतौ च यदुःखं प्राप्तं छेदनभेदनैः । न शक्तस्तत् पुमान् वक्तुं जिव्हाकोटिशतैरपि ।। १४६॥ संस्तों नास्ति तत्सौख्यं यन्न प्राप्तमनेकधा । देवमानवतियेक्षु भ्रमता जन्तुनानिशं ॥ १४७ ॥
१ मोकव्यं वस्तु मुंदर खः । ३ तं कारातिमायुमं ख. १ ३ चित्र ल. ।