________________
सिद्धान्तसारादिसंग्रहभोगार्थी यः करोत्यज्ञो निदानं मोहसंगतः। चूर्णीकरोत्यसौ रत्नं अनर्थसूत्रहेतुना ॥ १२६ ॥ भवभोगशरीरेषु भावनीयः सदा बुधैः। निर्वेदः परया बुद्धया कर्मारातिजिघृक्षुभिः ।। १२७ ।। यावन मृत्युवत्रेण देहशलो निपात्यते । नियुज्यतां मनस्तावस्कारातिपरिक्षये ॥ १२८ ॥ त्यज कामार्थयोः संग धर्मध्यानं सदा भज । छिद्धि स्नेहमयान पाशान् मानुष्य प्राप दुर्लभम् ।।१२९।। कथं ते भ्रष्टसदवृत्त ? विषयानुपसेवते । पंचतां हरतां तेषां नरके तीनबेदना ॥१३० ।। सद्वत्तभ्रष्टचित्तानां विषयासंगसंगिनाम् । तेषामिहेव दुःखानि भवन्ति नरकेषु च ॥ १३१ ।। विषयास्वादलुब्धेन रागद्वेषवशात्मना । आत्मा च वंचितस्तेन यः शमं नापि सेवते ॥१३२ ॥ आत्मनां यत्कृतं कर्म भोक्तव्यं तदनेकधा | तस्मात् कमोस्रर्व रुद्ध्वा स्वेन्द्रियाणि वशे नयेत्॥१३३॥ इन्द्रियप्रसर रुद्ध्वा स्वात्मानं वशमानयेत् । येन निर्याणसाँख्यस्य भाजनं त्वं प्रपत्स्यसे ।। १३४ ।। सम्पन्नेष्वपि भोगेषु महतां नास्ति गृद्भुता। अन्येषां गृद्धिरेवास्ति शमस्तु न कदाचन ॥ १३५॥ . पखंडाधिपतिश्चक्री परित्यज्य वसुन्धराम् । तृणवत सर्वमोगाँश्च दीक्षा दैगम्बरी स्थिता ।। १३६॥
१ आत्मानो क, आत्मनो ख ।