________________
सिद्धान्तसारादिसंग्रह
बैराग्यभावनामंत्रैस्तनिवार्य महाबलं । स्वच्छन्दवृत्तयो धीराः सिद्धिसौख्यं अपेदिरे ।। १०६ ।। कामी त्यजति सद्वृत्तं गुरोवाणी हियं तथा । गुणानां समुदायं च चेतः स्वास्थ्य तथैव च ॥ १०७ ।। तस्मात्कामः सदा हेयो मोक्षसौख्यं जिघृक्षुभिः । संसारं चःपरित्यक्तुं वाञ्छद्रियतिसत्तमः ॥ १०८।। कामार्थों वैरिणी नित्य विशुद्धध्यानरोधनौ । संत्यज्यतां महारौ सुखं संजायते नृणाम् ।। १०९ ।। कामदाहो वरं सोढुं न तु शीलस्य खण्डनम् । शैलखंडनशीलानां नरके पतनं ध्रुवं ॥ ११ ॥ कामदाहः सदा नैव स्वल्पकालेन शाम्यति । सेवनाच्च महापापं नरकावपातनम् ॥ १११ ।। सुतीवेणापि कामेन स्वल्पकालं तु वेदना । खंडनेन तु शीलस्य भवकोटिषु वेदना ॥ ११२।। नियतं ग्रशमं याति कामदाहः सुदारुणः। ज्ञानोपयोगसामाद्विष मंत्रपदै यथा ।। ११३ ॥ असेवनमनङ्गस्य शमाय परमं स्मृतम् । सेवनाच परा वृद्धिः शमस्तु न कदाचन ।। ११४ ॥ उपवासोऽवमोदय रसानां त्यजन तथा । अस्नानसेवनं चैव ताम्बूलस्य च वर्जनम् ॥११५|| असेवेच्छानिरोधस्तु निरनुस्मरणं तथा । एते हि निर्जरोपाया मदनस्य महारिपोः ।। ११६ ।।
१ महत्पापं ख।