________________
...........................
२३४
सिद्धान्तसावितहेइन्द्रियाणां समे लाभं रागद्वेषजयेन च । आत्मानं योजयेत्सम्यक संमृतिच्छेदकारणम् ॥ ८४॥ इन्द्रियाणि वशे यस यस्य दुष्टं न मानसम् । आत्मा धर्मरतो यस्य सफलं तस्य जीवितम् ।। ८५॥ परनिन्दासु ये मृका निजलाध्यपराङ्मुखाः । ईदृशैर्ये गुणैर्युक्ताः पूज्याः सर्वत्र विष्टपे ||८६।। प्राणान्तिकेऽपि सम्प्राप्ते वर्जनीयानि साधुना । पर लोकविरुद्धानि येनात्मा सुखमश्नुते ।। ८७ ।। स मानयति भूतानि यः सदा विनयान्वितः । स प्रियः सर्वलोकेऽस्मिन्नापमानं समश्नुते ॥ ८८॥ किम्याकस्य फलं भक्ष्यं कदाचिदपि धीमता। विषयास्तु न भोक्तव्या यद्यपि स्युः सुपेशलाः ।। ८९ ।। स्वीसम्पर्कसमं सौख्यं वर्णयन्त्यचुधा जनाः । विचार्यमाणमेतद्धि दुःखानां बीजमुत्तमम् ।। ९० ।। स्मराग्निना प्रदग्धानि शरीराणि शरीरिणाम् । शमाम्भसा हि सिक्तानि निवृत्तिं नैव भेजिरे ॥ २॥ अग्निना तु प्रदग्धानां स(श)मोस्तीति यतोज । स्मरवन्हिपदग्धानां सश)मो नास्ति भवेष्वपि ॥ ९२ ।। मदनोऽस्ति महान्याधिचिकित्स्यः सदा बुधैः । संसारवर्धनेऽत्यथे दुःखोत्पादनतत्परः ।। ९३ ।। यावदस्य हि कामानिहृदये प्रज्वलत्यलम् ।
आश्रयन्ति हि कर्माणि तावदस्य निरन्तरम् ।। ९४ ॥ १ युक्तास्ते पूज्याः सर्वविष्टपे ख.। २ परलोक स. । ३ श्राश्रूयन्ति ख.। ४ ताबत्तस्य स.।