________________
सार-समुच्चय: 1
२३३
यत्वया न कृतो धर्मः सदा मोक्षसुखावहः । प्रसन्नमनसा येन तेन दुःखी भवानिह ||७३|| यत्वया क्रियते कर्म विषयान्धेन दारुणम् । उदये तस्य सम्प्राप्ते कस्ते त्राता भविष्यति ॥७४|| भुक्त्वाप्यनन्तरं भोगान् देवलोके यथेप्सितान् । यो हि तृप्ति न सम्प्राप्तःसाकें प्राप्स्यति सम्प्रति ।।७५॥ वरं हालाहलं भुक्तं विषं तद्भयनाशनम् । न तु भोगविपं भुक्तमनन्तभवदुःखदम् ।।७६।। इन्द्रियप्रभवं सौख्यं सुखाभासं न तत्सुखम् । तच्च कर्मविबन्धाय दुःखदानेकपण्डितम् ।।७७।। अक्षाश्वान्निश्चलं धत्स्व विषयोत्पथगामिनः । वैराग्यपग्रहाकृष्टान् सन्मार्ग विनियोजयेत् ॥७८।। अक्षाण्येव स्वकीयानि शत्रवो दुःखहेतवः। विषयेषु प्रवृत्तानि कषायवशवर्तिनः ।। ७९ ॥ इन्द्रियाणां यदा छंदे वर्तते मोहसंगतः । नदात्मैव तव शत्रुरात्मनो दुःखबन्धनः ।। ८० ॥ इन्द्रियाणि प्रवृत्तानि विषयेषु निरन्तरम् । सज्ज्ञानभावनाशक्त्या वारयन्तीह ते रताः ।। ८१॥ इन्द्रियेच्छारुजामजः ? कुरुते यो झुपक्रमम् । तमेव मन्यते सौख्यं किं तु कष्टमतः परम् ।। ८२ ॥ आत्मामिलापरागाणां यः समः क्रियते बुधैः। तदेव परम तत्वमित्यूचुर्ब्रह्मवेदिनः ।। ८३ ॥
१ वारयन्ति हिते रताः ख । २ मन्यः ।