SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ सार-समुच्चयः । आत्मतत्वं न जानन्ति मिथ्यामोहेन मोहिताः । मनुजा येन मानस्था विप्रलुब्धाः कुशासनैः ||५३ ॥ दुःखस्य भीरवोऽप्येते सद्धर्म न हि कुर्वते । कर्मणा मोहनीयेन मोहिता बहवी जनाः ॥५४॥ कथं न रमते चित्तं धर्मे चैकसुखप्रदे । देवानां दुःखभीरूणां प्रायो मिथ्यादृशो यतः ।। ५५ ।। दुःखं न शक्यते सोढुं पूर्वकर्मार्जितं नरैः । तस्मात् कुरुत सद्धर्म येन तत्कर्म नश्यति ॥ ५६ ॥ सुकृतं तु भवेद्यस्य तेन यान्ति परिक्षयम् । दुःखोत्पादन भूतानि दुष्कर्माणि समन्ततः ॥ ५७ ॥ धर्म एव सदा कार्यो मुक्त्वा व्यापारमन्यतः । यः करोति परं सौख्यं यावन्निर्वाणसंगमः ॥ ५८ ॥ क्षणेऽपि समतिक्रान्ते सद्धर्म परिवर्जिते । आत्मानं सुषितं मन्ये कषायेन्द्रियतस्करैः ॥ ५९ ॥ धर्मकार्ये मतिस्तावद्यावदायुर्हनं तव । अर्युःकर्मणि संक्षीणे पश्चात्वं किं करिष्यसि ||६०|| धर्ममाचर यत्नेन मा भवस्त्वं मृतोपमः । सद्धर्मं चेतसां पुसां जीवितं सफलं भवेत् ॥ ६१ ॥ मृता नैव मृतास्ते तु ये नरा धर्मकारिणः । जीतोऽपि मृतास्ते वै ये नराः पापकारिणः ॥ ६२॥ धर्मामृतं सदा पेयं दुःखातविनाशनम् । यस्मिन् पीते परं सौख्यं जीवानां जायते सदा ॥६३ ॥ १ तत्वं ख — पुस्तके : आयुष कर्मक्षीणेक पुस्तके | क पुस्तके | २३१ Ama 35 ३ जीविनां
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy