SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारादिसंग्रहे पंडितोऽसौ विनीतोऽसौ धर्मज्ञः प्रियदर्शनः । यः सदाचारसम्पन्नः सम्यक्त्वदृढमानसः ॥४२॥ जरामरणरोगानां सम्यक्त्वज्ञानभेषजैः । शमनं कुरुते यस्तु स च द्यो विधीयते ॥ ४३ ॥ जन्मान्तरार्जितं कर्म सम्यक्त्वज्ञानसंयमैः । निराकर्तुं सदा युक्तमपूर्वं च निरोधनम् ॥ ४४ ॥ सम्यक्त्वं भावयेत्क्षिप्रं सज्ज्ञानं चरणं तथा । कृच्छ्रात्सुचरितं प्राप्तं नृत्वं याति निरर्थकम् ॥ ४५॥ अतीतेनापि कालेन यन्न प्राप्तं कदाचन । तदिदानीं त्वया प्राप्तं सम्यग्दर्शनमुत्तमम् ||४६ ॥ उत्तमे जन्मनि प्राप्ते चारित्रं कुरु यत्नतः । सद्धर्मे च परां भक्ति शमे च परमां रतिम् ॥४७॥ अनादिकालजीवेन प्राप्तं दुःखं पुनः पुनः । मिथ्यामोहपरीतेन कपायवशवर्तिना ||४८ ॥ सम्यक्त्वादित्यसम्पन्नं कर्मध्वान्तं विनश्यति | आसन्नभव्यसत्वानां काललब्ध्यादिसन्निधौ ॥ ४९ ॥ सम्यक्त्वभावशुद्धेन विषयासङ्गवर्जितः । कषायविरतेनैव भयदुःखं विहन्यते ॥ ५० ॥ संसारध्वंसनं प्राप्य सम्यक्त्वं नाशयन्ति ये । धमन्ति तेऽमृतं पीत्वा सर्वव्याधिहरं पुनः || ५१ ॥ मिथ्यात्वं परमं बीजं संसारस्य दुरात्मनः । तस्मात्तदेव भोक्तव्यं मोक्षसौख्यं जिघृक्षुणा ॥ ५२ ॥ १ संयमं क पुस्तके | २'अपूर्वा च निरोधनाम्' ख पुस्तके ३ 'संभिल' ख पुस्तके। २३० M
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy