________________
सार-समुच्चयः ।
२२९
विषयोरगदष्टस्य कषायविषमोहितः। संयमो हि महामंत्रस्नाता सर्वत्र देहिनाम् ॥३०॥ कषायकलुषो जीवो रागरंजितमानसः । चतुर्गनिभवाम्बोधौ भिन्ना नौरिव सीदति ॥ ३१ ॥ कपायवशगो जीवो कर्म बध्नाति दारुणम् । तेनासौं क्लेशमाप्नोति भवकोटिषु दारुणम् ॥३२॥ कपायविषयश्चित्तं मिथ्यात्वेन च संयुतम् । संसारबीजतां याति विमुक्तं मोक्षवीजताम् ॥ ३३ ॥ कपायविपयं सौख्यं इन्द्रियाणां च संग्रहः । जायते परमोत्कृष्टमात्मनो भवभेदि यत् ।। ३४|| कषायान् शत्रुवत पश्येद्विषयान् विषवत्तथा । मोहं च परमं व्याधिमेवे मत्यो विचक्षणः ।। ३५ ।। कषायविपयैश्चौरधर्मरत्नं विलुप्यति ( ते)। वैराग्यखगधाराभिः शूराः कुर्वन्ति रक्षणम् ॥ ३६॥ कपायकर्षणं कृत्वा विषयाणामसेवनम् । एतद्भो मानवाः ! पथ्यं सम्यग्दर्शनमुत्तमम् ।। ३७ ।। कपायातपतप्तानां विषयामयमोहिनाम् । संयोगायोगखिन्नानां सम्यक्त्वं परमं हितम् ॥ ३८॥ बरं नरकवासोऽपि सम्यक्त्वेन समायुतः । न तु सम्यक्त्वहीनस्य निर्वासो दिवि राजते ।। ३९ ॥ सम्यक्त्वं परमं रत्नं शंकादिमलवर्जितम् । संसारदुःखदारिद्य नाशयेत्सुविनिश्चितम् ॥४०॥ सम्यक्त्वेन हि युक्तस्य धवं निर्वाणसंगमः । मिथ्यादृशोऽस्य जीवस्य संसारे श्रमणं सदा ॥४१॥ १ 'मेवमूचुविचक्षणाः ख-पुस्तके । २ 'वे गति सुनिश्चित क-पुस्तके ।