SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सार-समुच्चयः । २२७ ज्ञानाभ्यासः सदा कार्यो ध्याने चाध्ययने तथा। तपसो रक्षणं चैव यदीच्छेद्धितमात्मनः ॥ ९॥ ज्ञानादित्यो हदियेस्य नित्यमुद्योतकारकः । तस्य निर्मलतां याति पंचेन्द्रियदिगङ्गना ॥ १० ॥ एतज्ज्ञानफलं नाम यच्चारित्रोद्यमः सदा । क्रियते पापनिमुक्तः साधुसेवापरायणः ॥ ११ ॥ सर्वद्वन्दं परित्यज्य निभृतेनान्तरात्मना । ज्ञानामृतं सदाप्यं चित्ताल्हादनमुत्तमम् ॥ १२॥ ज्ञानं नाम महारत्नं यन प्राप्तं कदाचन । संसारे भ्रमता भीमे नानादुःखविधायिनि ॥ १३ ॥ अधुना तत्वधा प्रात सम्यग्दर्शनसंधुरम् । प्रमादं मा पुनः काषीविषयास्वादलालसः ॥ १४ ॥ आत्मानं सततं रक्षेज्ज्ञानध्यानतपोबलः । प्रमादिनोऽस्य जीवस्य शीलरत्नं बिलु यति ॥ १५ ।। शीलरत्नं हतं यस्य मोहध्वान्तमुपेयुषः । नानादुःखशताकीर्ण नरके पतनं ध्रुवम् ॥ १६ ॥ यावत स्वास्थं (स्थ्यं) शरीरस्य यावच्चेन्द्रियसम्मदः । तावद्युक्तं तपः कतु चाद्धक्ये केवलं धमः ॥ १७ ॥ शुद्ध तपसि सदीयं ज्ञानं कर्मपरिक्षये । उपयोगिधन पात्रे यस्य याति स पंडितः ॥ १८॥ गुरुशुश्रृपया जन्म चित्तं सद्ध्यानचिन्तया । श्रुतं यस्य समे याति विनियोगं स पुण्यभार ।। १९ ॥ १ तपःसंरक्षणं ख-पुस्तके । ३ ' बिलमवे ' ख-पुस्तके । ३ 'सम्पदः । ख-पुस्तके । ४ उपयोगं धनं प्राप्ते ख-पुस्तके ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy