________________
श्रीमत्कुल भद्रविरचितः सार-समुच्चयः ।
।
तिने वक्ष्येऽहं देशनां कांचिन्मतिहीनोऽपि भक्तितः ॥ १ ॥ संसारे पर्यटन जंतुर्वयोनिसमाकुले | शारीरं मानसं दुःखं प्राप्नोति वत ! दारुणं ॥ २ ॥ आर्त्तध्यानरतो मूढो न करोत्यात्मनो हितं । तेनासौं सुमहत्क्लेशं परत्रेह च गच्छति ॥ ३ ॥ ज्ञानभावनया जीवो लेभते हितमात्मनः । विनयाचारसम्पन्नो विषयेषु पराङ्मखः || ४ || आत्मानं भावयेन्नित्यं ज्ञानेन विनयेन च । मां पुनर्ह्रियमाणस्य पश्चात्तापो भविष्यति ॥ ५ ॥ तथापि सत्तपः कार्य ज्ञानसद्भावभावितं । यथा विमलतां याति चेतोरत्नं सुदुस्तरम् || ६ || नुजन्मनः फलं सारं यदेतज्ज्ञानसेवनम् । अनि गृहितवीर्यस्य संयमस्य च धारणम् ॥ ७ ॥ ज्ञानध्यानोपवासैश्च परीषहजयैस्तथा ।
शीलसंयमयोगैश्व स्वात्मानं भावयेत् सदा ॥ ८ ॥
१ न लेभे हितमात्मन: क- पुस्तके २ 'आयुना प्रियमाणस्य इति खपुस्तके शोधितपाठः । ३ 'सुदुर्धरं ख- पुस्तके |