________________
१८६
सिद्धान्तमारादिसंग्रहे
मोहांधानां स्फुरति हृदये ब्राह्यमात्मीयबद्धया
निर्मोहानां व्यपगतमलः शाश्वदात्मव नित्यः । यत्तभेदं यदि विविदिपा ते स्वकीय स्वकीय
म्र्मोह चित्त ! क्षपयसि तदा किं न दुष्ट क्षणेन ॥ ८८ ॥ स्वात्मारोपितशीलसंयमभरास्त्यक्तान्यसाहायकाः
कायेनापि विलक्षमाणहृदयाः साहायकं कुन्वते । तप्यंते परदुष्कर गुरुतपस्तत्रापि ये निस्पृहा
जन्मारण्यमतीय भूरिभयदं गच्छति ते निवृत्ति ।। ८९॥ पूर्व कर्म करोति दुःखमशुभं सौख्यं शुभं निर्मित
विज्ञायेच्यशुभं निहंतुमनसो ये पोषयते तपः । जायंते समसंयमैकनिधयस्ते दुर्लभा योमिनो
ये त्वत्रोभयकर्मनाशुनपरास्तेपां किमत्रोच्यते ॥९० ॥ विच्छेद्यं यदुदीर्य कर्मरमसा संसारविस्तारक
साधनामुदयागतं स्वयमुदं विच्छेदन कः श्रमः । यो गत्वा विजिगीपुणा बलक्ता वैरी हटाद्धन्यते
नाहत्या गृहमागतः स्वयमसी संत्यज्यते कोविदः ॥११॥ ब्रजति भृशमधस्ताद्गृह्यमाणेऽर्थजाते
गतभरमुपरिष्टात्तत्र संत्यज्यमाने । हतकहृदयतद्वद्येन ? यद्वत्तुलाग्रं
जहिहि दुरितहेतुं तेन संगं त्रिधापि ॥ ९२ ॥ सद्यो हंति दुरंतसंस्कृतिकरं यत्पूर्वकं पातकं
शुद्धयर्थ विमलं विधाय मलिनं तत्सेवते यस्तपः ।