SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सामायिक पाठः आत्मानं धनरूढकीचकचयः किं घर्षयात्मना वन्हित्वं प्रतिपद्यते न तरसा दुर्वारतेजोमयं ।। ४९ ॥ व्यासक्तो निजकाय कार्यकरणे यः सर्व्वदा यायते महात्मा स कदाचनापि कुरुते नात्मीयकार्योद्यमं । दुर्वारेण नरेश्वरेण महति स्वार्थे हठायोजिते भीतात्मा न कथंचनाऽपि तनुते कार्य स्वकीयं जनः ॥५०॥ ~~~ ર लक्ष्मीकीर्तिकलाकला पललना सौभाग्यभोग्योदया स्त्यज्यन्ते स्फुटमात्मनेह सकला एतैः सतामर्जितैः । जन्मांभोधिनिमज्ञिकर्मजनकैः किं साध्यते कांक्षितं यत्कृत्त्वा परिमुच्यते न सुधियस्तत्रादरं कुर्व्वते ॥५१॥ या [प] देयविचारणाऽस्ति न यतो न श्रेयसामागमो वैराग्यं न न कर्म्मपर्व्वतभिदा नाप्यात्मतत्त्वस्थितिः । तत्कार्य न कदाचनापि सुधियः स्वार्थोद्यताः कुर्व्वते शीत जातु नुनुत्सवो न शिखिनं विध्यापयंते बुधाः ॥ ५२॥ कामक्रोधविषाद मत्सरमद द्वेयश्रमादादिभिः शुद्धध्यान विवृद्धिकारिमनसः स्थेयं यतः क्षिप्यते । काठिन्यं परितापदानचतुरैर्हेमो हुताशैरिव त्याज्या ध्यान विधायिभिस्तत इमे कामादयो दूरतः ||५३|| व्यावृत्येन्द्रियगोचरो रुगद्दने लोलं चरिष्णुं चिरं दुर्वारं हृदयोदरे स्थिरतरं कृत्त्वा मनोमर्कटं ध्यानं ध्यायति मुक्तये श्र मर्निर्मुक्तभोग हो नोपायेन विना कृता हि विधयः सिद्धिं लभते ध्रुवं ॥५४॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy