________________
सामायिक पाठः । आश्लिष्टाविव विदिताविव सदा पादौ निखाताविव
स्थेयास्तां लिखिताविवाघदहनौ वाविवाहस्तव ||१६|| संयोगेन दुरंतकल्मषभुवा दुःखं न कि प्रायितो
येन त्वं भवकानने मृतिजराच्याघ्रबजाध्यासिते । संगस्तेन न जायते तव यथा स्वप्नेपि दुष्टात्मना
किंचित्कर्म तथा कुरुप हुइये कृत्वा मनोनिश्चलं ।।१७।। दुर्गधेन मलीमसेन वपुपा स्वर्गापवर्गश्रियः ।।
साध्यंते सुखकारणा यदि तदा संपद्यते का क्षतिः । निर्माल्येन विगर्हितेन सुखदं रत्नं यदि प्राप्यते
लाभः कन न मन्यते बत! तदा लोकस्थिति जानता ॥१८॥ मृत्युत्पत्तिवियोगसंगमभयव्याध्याधिशोकादयः
सूद्यते जिनशासनेन सहसा संसारविच्छेदिना ! सूर्येणेव समस्तलोचनपथप्रध्वंसबद्धोदया
हुन्यते तिमिरोत्कराः मुखहरा नक्षत्रविक्षेपिणा ॥ १९ ॥ चित्रारंभप्रचयनपरा सर्वदा लोकयात्रा
यस्य स्वांत स्फुरति न मुनेमुष्णाती मुक्तियात्राः कृत्वात्मानं स्थिरतरमसावात्मतत्वप्रचारे
क्षिप्त्वाशेष कलिलनिचयं ब्रह्मसन प्रयाति ॥ २०॥ नो वृद्धा न विचक्षणा न भुनयो न ज्ञानिनो नाऽधमा
नोमूरा न विभीरवो न पशो न स्वर्गिको नांडजाः । त्यज्यते शमवर्तिनेत्र सकला लोकत्रयच्यापिना दुर्वारेण मनोभवेन नयता हवांगिनो वश्यतां ॥ २१ ॥