________________
१६२
रराज नित्यं सकलाकला कला ममारतृष्णो वृजिनो जिनो जिनो । संहारपूज्यं नृपभा सभा सभा पार्श्व फणे रामगिरी गिरौ गिरौ ॥८॥
सिद्धान्तसारादिसंप्रहे
ta
ww
टीका - यत्र पार्श्वनाथे अं ब्रह्म रराजते शोभते । पुनः यत्र पार्श्वनाथे सकलाकला ज्ञानादिककला रराजते शोभते । पुनः कला कीदृशी शोभते ! द्वासप्ततिमनोज्ञकला शोभते, कथंभूतः पार्श्वनाथः १ अमारतृष्णः कोर्थः निष्कामः कामरहितः । पुनः कथंभूतः पार्श्वः ? अवृजिनः निःपाः । पुनः क थंभूतः पार्श्व: जिनो कोर्थः कर्मजीतनसमर्थः द्विधारत्नत्रयैः । पुनः कीदृशः पार्श्वः ? जिन जिनान् गणधरादीन् देवादीन् यः पार्श्वः स अवतीति [आराधयतीति ] स जिन: । पुनः कीदृशः पार्श्वनाथ: सभा कोर्थः यस्य पार्श्वनाथस्य सभा पूज्या बभूत्र कैः संहाराः देवाः आभरणैः सह भूषितैः देवैः तैः देवैः पूज्यं यस्य पार्श्वस्य सभा, सा सभा पुनः कीदृशी ? सभा [तृषभा ] कोर्थः अमरदेवानाममरेन्द्राणां मुकुदरत्नतेजसा कृत्वा च पुना रत्नमथसमवशरणस्य कांव्या कृत्वा शोभिता सभा सा सभा ॥ ८ ॥
शार्दूलविक्रीडितछंदः ।
तर्फे व्याकरणे च नाटकचये काव्याकुले कौशले विख्यातो विपद्मनंदिमुनि पस्तत्वस्य कोपं निधिः । गंभिरं यमकाष्टकं पठति यः संस्तूयसा लभ्यते श्रीपद्मप्रभदेवनिर्मितमिदं स्तोत्रं जगन्मंगलं ॥ ९ ॥
टीका - यः पुमान् इदं पार्श्वनाथस्य स्तोत्रं परति यः पुरुषः संस्तूयसा कृत्या संस्तवेन कृत्वा तत्वस्य को निधिः लभ्यते । कथंभूतं स्तोत्र श्रीपप्रभदेवमुनिना निर्मितं निष्पादितं । पुनः कीदृशं स्तोमं जगजंगलं त्रैलोक्य मंगलदायकं । पुनः कीदृशं स्तोत्रं यमकाष्टकं गंभीर कोर्भः तत्यादिकेन स्वात्मापरस्वरूपेण भर्तिता अत्रैव मुवि पृथिव्यां विषये द्वीप