________________
.--:.
......-.--
सिद्धान्तसारादिसंग्रहे-- सत्कामलतालतालता कश्यते । यस्य पार्श्वनाथस्य संबंधिनो भक्तपुरुषाः शुद्धभावेन नता नम्रीभूताः सन्तः तेषां नताः कथ्यत । कोदशा भक्ताः पुरुषाः ? नताः कोर्थः सर्वैरपि नमस्कृताः सधैर्लोक: नमस्कृताः । पुनः कीदृशा भक्ताः ? सुष्छु अतिशयेन निर्घाणसौरव्य गताः 1 पुनः कीदृशाः भक्ताः पुरुषाः ? गतागता; कोर्थ: गत ज्ञाने अगतं अनष्टं येषां ते गतागता ज्ञानसहिता इत्यर्थः, अथवा अगता कोथः ? गतं नष्टं अगतं अज्ञाने येषां ते अगता ज्ञानसहिताः पुरुषाः इत्यर्थः, वाथवा आगता कर्थः गतं नष्टं अगते अज्ञाने येषां ते आगता अज्ञानरहिताः पुरुपा इत्यर्थः । पार्श्व फणे राम पूर्वोक्तः अर्थ इति ॥ ४ ॥ विवादिताशेषविधिर्विधिर्विधिबभूव सविहरी हरी हरी । त्रिज्ञानसज्ञानहरोहरोहरो पार्च फणे रामगिरौं गिरौ गिरौ ।।
टांका-पुनः कीदृशः पार्श्वनाथः ? विवादिताशेषविविः कोर्थ: विवादिनां मा विद्यैव लक्ष्मीस्तस्याः लक्ष्म्या यः शेषः अल्पीकरणं तत्र अल्पकरणे विधिः व्यापारो यस्य स व्यापारो भवति कोर्थः यस्य पार्श्वनाथस्य परत्रादीनां विद्यायां विषये सा विद्या तुच्छकरणाय व्यापारी अतिशक्तिरस्ति । पुनः कीदृशः पार्थः ? विधिः कोर्थः निज आचारत् तत्पर ( निजाचारात्तत्पर ) आचाररूपः । पुन: कादशः पार्थः ? विधिः कोर्थः चत्रुर्विधसंघस्य जिनधर्मेपोद्योतकग जातः । पुनः कीदृशः पार्श्वः ? सव्वहरी कोर्थः सर्याणां विन श्रीपार्श्वनाथस्य नामस्मरणेन क्षयं यातीति सव्वहः । पुनः कीदृशः पार्श्वः हारः इंद्रः (ई) लक्ष्मीः । पुनः हरिः सूर्यः, ई कामः, पुनः हरिः वायुः एते सर्वे ई गतौ धाता प्रयोगात, यान्ति गच्छति सेवति (ते) यं पार्श्वनाथं स सावहरीहरीहरी । पुनः कीदृशः पार्श्वनाथः ? त्रिज्ञान: कोर्थ; यः पार्थनाथो गर्भावतारसमये गर्भमध्ये मतिश्रुतावधि इति त्रिज्ञानलक्षणः । पुनः कीदृशः पार्श्वनाथः ? सज्ञानेन विराजितः