________________
१५०
सिद्धान्तसारादिसंप्रहे
प्रीतां रूपवतीं सतीं जिन पते ऽलक्ष्मिलीलावतीं हित्वा रूपरसोज्झितां रमयसे यन्मुक्तिसीमंतिनीम् । तन्नूनं भवताऽपि तीर्थपतिना स्वेतत्स्फुटं निर्ममे युक्तायुक्त विचारणा यदि भवेत्स्नेहाय दक्षं जलम् ॥१२॥ इत्थं योगींद्रचेतः कमल कमल भूर्मुक्तिकासारहंसः
कल्याणांकूरकंदः सममहिमरमामंजरीवल्लरी श्रीः । मंत्रद्रषवीजं भुवनजनवनोल्लासलीलावतंसः
श्री पार्श्वः स्यात्समस्यास्तव कुसुमकृताभ्यर्चनोऽभीटयै ॥ १३ ॥
इति पार्श्वनाथसमस्या स्तोत्रम् |