________________
******
श्रीपार्श्वनाथसमस्या स्तोत्रम् |
त्वद्दानलीला दलितप्रतापो देव ! कुंभस्तव शक्तिमाप्तुम् । भृगोः पतन्नादमिमं तनोति
वे व ठंड वयं उडं ठः ॥ ६ ॥
जनिमहे जिन ! ते सवनोदकैः प्रमरैरमरेश्वर भूधरे। विदलितेषु नगेषु किलाभवत्
उपरि मूलमधस्तरुपल्लवाः ॥ ७ ॥ रसना स्तवने नयनं चदने
श्रवणं वचने व करो महने । तव देव ! विशां कृतिनां सततं
रमते रमते रमते रमते ॥ ८ ॥ विश्वकनायक कला न हि या त्वदी
कार्ये न याच कविता भवतः स्तवाय । लग्नो न यस्त्वयि भवो विभवश्व सा किं
सा किं स किंस किमिति प्रवदन्ति धीराः ॥९॥ अहीशेऽधस्ताचमुपनमति जेतुं दितिसुतं
१४९
समादाय क्रोधान्मणिमधुपकांतं किल धनुः । अधोऽधो मैनाक चरति जगतीनाथ ! समभूत् धनुःकोटी भृंगस्तदुपरि गिरिस्तत्र जलाधिः ॥ १०॥ जगच्चक्रं चक्रे चरणपरिचर्येकरुचिना
मुना त्वद्दासेन स्वमनसि समंतान्निगमनम् । तदान्यो देवस्त्वां तुलयति विभो । चेद्भुवि भवेत् धनुःकोटी भृंगस्तदुपरि गीरस्तत्र जलधिः ॥ २१ ॥