SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १४४ सिद्धान्तसारादिसंग्रहे F तुदादेशः, व्यंजनात च नपुंसके ज्ञेयं क्षिपत इत्यत्र प्रेरणफलवति कर्त्तयत्मनेपदं अष्टकर्मक्षयान्मुक्तिप्राप्तिफलं । विदधदित्यत्र विपूर्वधाराधातुः शतृप्रत्यये द्वित्वे नोंते च अंतो नो लुगिति नलोपे विवदि त सिद्धम् ॥ ५ ॥ साम्येन पश्यत्रिजगद्विवेकी श्रयन् प्रभो ! पंचसमित्युपैति । अपास्य सप्तभ्यधिसिद्धिमध्ये सिद्धं जवेनोपभवादुपेशम् ॥ ६ ॥ टीका हे प्रभो ! साम्येन त्रिजगत् पश्यन्, एवं पंचसमिति श्रयन् सप्तभि अपास्य विवेकी नर उपभवान् (तु) अविसिद्धिमध्ये सिद्ध उपेश यथा स्यात्तथा जवेन वेगन उपैति गच्छतीत्यर्थ इत्यन्वयः । शेषं स्वरांत व्यंजनांतं क्लीचे ज्ञेयमिति वचनात् त्रयाणां जगतां समाहारस्त्रिजगत् पंचानां समितीनां समाहारः पंचसमिति, सप्तानां भीनां समाहारः सप्तभि इत्यादी सर्व कीवत्वं ततः क्लीं ह्रस्वः । अनतो मुत्रीति द्वितीयाम्लोपः सिद्धः । अधिसिद्धिमध्ये, ईशस्य समीपं उपेशं वीतरागसमीपं इत्यर्थः अत्र “विभक्तिसमीपसमृद्धि” इत्यादिसूत्रेणाव्ययीभावः । सिद्धीनां मध्ये मध्ये सिद्धिरित्यत्र " पारे मध्येंत पष्टी चेति " षष्ठीसमासः । उदाहरणत्रयेऽपि क्रियाविशेषणात् । अथवा विवक्षातः कारकाणीति न्यायादुदाहरणत्रये सप्तभी कर्म वा अव्ययादिति विभतीनां लोपः । आकासंताव्ययीभावस्याग्रतः पंचमीवर्जविभक्तिनामम् स्यात् तदुदाहरणं उपेशं इति ज्ञेयं पंचमीवर्जन | दुपभवानि (दिति ) प्रत्युदाहरणं चेति ॥ ६ ॥ भवेच्छुभायोपभवद्यथेष्टं, श्रये सनाथोऽस्मि नमोऽस्तु दोषाः । दूरे प्रभावश्च गुरुः सुखं मे विश्वार्ध्य ! धीश्रीकृदुपद्विपादे ॥ ७ ॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy