SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारादिसंग्रहे संसारभीतं जगदीश ! दीनं ____ मां रक्ष रक्षाक्षम ! रक्षणीयम् । प्रौढप्रसादं कुरु सौम्यदृष्टया विलोकय स्वीयवचश्च देहि ॥ ३॥ टीका-संसाराद्रीतः संसारभीतः, अन्न पंचमीसमासः, जगतामीशो जगदीशः, अत्र पष्टीतत्पुरुषसमासः । एवं तत्पुरुषसमासः संपूर्णः। प्रौढ़श्वासौ प्रसादश्च प्रौढ प्रसादस्त प्रौढप्रसाद, अत्र पुंसि कर्मधारयः, सौ. म्या चासो दृष्टिश्चेति सौम्यदृष्टिस्तयेति स्त्रियां कर्मिधारयः, स्वीयं च तद्वचवात स्वावयचा, इत्यत्र लांचे कधारमसमासः, एवं कर्मधारयसमासः संपूर्णः । हे जगदीश ! हे रक्षाक्षम 1 संसारमीत दीने रक्षणीयं मां स्वं रक्ष प्रौढप्रसादं त्वं कुरु, सौभ्यदृष्टया मां विलोकय, च पुनर्मम स्वीयबचो देहि इति ॥ ३ ॥ वश्यमाणश्लोकेन बहुव्रीहिसमासं प्रतिपादयन्ताह, नतेंद्र ! विद्रावितदोष ! दत्त दाना दरिद्रा अपि बीतदौःस्थ्याः । त्वया कृता भूरिधना अनंत-- ज्ञान! द्विषान् सक्षम ! मंक्षु मासान् ॥ ४ ॥ टीका-हे नतेंद्र ! हे विद्रावित्तदोष ! हे अनंतज्ञान ! हे सक्षम ! त्वया दरिद्रा अपि लोका इत्यध्याहार्यः दत्तदाना बीतदौस्थ्या भूरिधना द्विषान् द्वादश मासान् यावत् इत्यध्याहार्य मंक्षु शीघ्रं यथा स्यात्तथा १ रक्षायां क्षमो रक्षाक्षमः तत्सम्बुद्वौ हे रक्षाक्षम ! इति सप्तमो तत्पुरुषोऽपि ज्ञेयः।-संशोधकः
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy