________________
सर्वज्ञस्तवनम् ।
अस्प व्याख्या यथा श्राद्धा देवान् पूजयंति इयं एककर्मा १ मित्रोऽजां ग्राम नयति इयं द्विकर्मा २ देवदत्तः शेते इयमकर्मा ३ एतत् प्रकारत्रयं कर्तरि । अथ प्रकारत्रयं कर्मणि, ग़ा श्राद्भर्देवा: पूज्यने । मिलोग अजा ग्राम नीयते ५ देवदत्तेन शय्यते ६ आरोहंते हस्तिनं हस्तिपकास्तानारोहतो हस्ती प्रयुक्त आरोह (हये)ते हस्तिनं स्तिपकान् ७ वर्षासु मेघो गर्जति मयूरो नृत्यति ८ इत्यष्टप्रकारा उक्तयो ज्ञेयाः ।।१।।
ध्यानानुकंपाधृतयः प्रधानो
ल्लासिस्थिराः ज्ञानसुखक्ष्मं च । सुनाथ ! संति त्वयि सिद्धिसौंधा
. घिरूढ ! कमोज्झित ! विश्वरुच्य ! ॥२॥ टीका-हे सुनाथ ! हे सिद्धिसौंधाधिरूद्ध ! हे कमोज्झित : हे विश्वरुच्य ! त्वयि प्रधानोलासिस्थिराः ध्यानानुकंपाधृत्तयः संति वत्तते, न पुनः ज्ञानसुखक्षम अस्ति इत्यन्वयः ! ध्यान च अनुकंपा च धृतिश्र ध्यानानुकंपाधृतयः, अत्र केवल विशेष्यक्तिरेतरहः कथितः । प्रधानं च उल्लासिनी च स्थिरा च प्रधानोल्लासिस्थिराः अयं केवलाविशेषणैः स एव प्रधानादीनि ध्यानादीनां विशेषणानि | ज्ञानं च सुखं च क्षमा च ज्ञानमुखक्षम अयं समाहारद्वंद्वः, पूर्वार्द्धन द्वंद्वः कथितः । शोभनश्चासौ नाथश्च सुनाथः संबुद्धौ मुनाश्च ! अत्र प्रथमातत्पुरुषः कश्चितः । सौधमधिरूढः सौधाधिरूद्धः सिद्धिरेव सौधाधिरूढः सिद्धिसौधाविरूढः, अत्र द्वितीयातत्पुरुषः । कर्मभिरुज्झितः, अत्र तृतीयातत्पुरुषः । विश्वस्मै रुच्यः, अत्र चतुर्थीतत्पुरुषः कथितः। पंचमीतत्पुरुषषष्ठीतत्पुरुषसमासौ वक्ष्यमाणश्लोंकपूर्वादेन ज्ञेयौ ॥२॥