________________
जयनंदमूरिसिरनि सर्वज्ञस्तवनम् ।
सटीक । देवाः प्रभो ! यं विधिनात्मशुद्ध ___ भक्त्याः सुमेरोः शिखरेऽभ्यर्षिचन् । संस्तूयसे त्वं स मया समोद
मुन्मील्यते ज्ञानशा यथा मे ॥१॥ टीका-देवा इति-गीर्वाणभाषयार्थोच्चारणमन्त्रयस्तमन्वयं चाणारस्या भद्रापद्रव्यव्याख्यानावसरे कथयति स आदी कथ्यते--~-यथा हे प्रभो ! त्वां देवा विधिनात्मशुद्र्य भक्त्याः शक्तिसकाशात् मुमेरोः शिखरे. भ्यर्पिचन्नस्नपयन् जन्मोत्सवमकाः स वं मया समोद सहर्ष यथा स्यात्तथा संस्तूपसे यथा मे ज्ञानहशोन्मीत्यत इत्यन्वयः । अभिपूर्वषिचीत् क्षरणे "हस्तानी अन् तुदादेशः “मुचादितृपगुफेति" नोऽन्तः अभ्यपिचन् इयं कर्तर्युक्तिः । सम्पूर्वष्टक स्तुतौ पः सो" इति स्तुनिमित्तस्य पस्याभावान्नैमित्तिकस्य टस्याप्यभावः " निमित्ताभावे नैमित्तिकस्याप्यभावः" इति न्यायात् । "तत्साप्यानाप्येति" कर्मणि वर्तमानात् क्यप्रत्ययः । “दीर्घश्वगाडिति " दीर्घत्वं संस्तूयसे इति कर्मण्युक्ति । उत्पूर्वकमील निमेषणे भाचे आत्मनेपदं शेपं पूर्ववत् इयं भावे उक्तिः । अत्र काव्ये सप्त विभक्तयस्तिस्त्र उक्तयः संबोधनं क्रियाविशेषणं च कथितानि ! ग्रंथांतरेऽट उक्तयस्ता अपि अधिकारात् कर्यते । यथा;
एककर्मा द्विकर्मा चाकर्मा कर्तरि कर्मणि । कर्मकर्तरि भावे च उक्तयोऽष्टविधाः स्मृताः॥ १ ।।