SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ समवशरण स्तोत्रम् | १३९. संख्यातयोजनेऽपि प्रवेशनिर्गमयुजोऽत्र भव्याः स्युः । अंतर्मुहूर्त्त मात्रा जिनमाहात्म्येन वृद्धायाः ॥५७॥ मिथ्यादृष्टिरभन्योऽसंज्ञी जीवोऽत्र विद्यते नैव । श्वानभ्यवसाय यः संदिग्धो विपर्यस्तः ॥ ५८ ॥ तत्र न मृत्युर्जन्म च विद्वेषो न च मन्मथोन्मादः । रागांतक बुभुक्षाः पीडा च न विद्यते कापि ॥ ५९॥ 1834 अनुष्टुप्तम् । अंधाः पश्यंति रूपाणि शृण्वंति चधिराः श्रुतिम् । मुकाः स्पष्टं विभाषते चंक्रम्यते च पंगवः || ६० ॥ आर्यावृत्तम् । यः स्तुत्वैवं ध्यायतिं समरसमवाजिनेश्वरं देवम् । तस्यैष भवति विभवः कतिपयदिवासैर्न संदेहः ॥ ६१ ॥ चत्वारिंशद्भवने द्वात्रिंशद्व्यं तरविमानेषु । चतुरधिकविंशतिचंद्रार्कौ सिंहोऽथ चक्रवत्तन्द्राः ॥ ६२॥ कर्तुः प्रशस्तिः । शक्राज्ञया स्वभक्त्या धनदेवविनिर्मितं समवशरणम् । व्यावर्णितं त्रिविद्याधिगणिना विष्णुसेनेन ॥ ६३॥ इति श्रीविष्णुसेनविरचितं समवशरणस्तोत्रं समाप्तम् । १' यचानध्यायो ' इति पाठ: श्रेयानवभाति ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy