________________
समवशरणस्तोत्रम् |
नृत्यद्भिर्गायद्भिर्जिनाभिषकोद्यतै र शेष सुरैः । बहुप्रासादा भवंति भवनावनौ रम्याः || १७ || स्फाटिकशालस्यांतर्लक्ष्मीवरमंडपे गणक्ष्मायाम् । द्वादश कोष्ठाः स्फाटिकषोडशगुरुमितिभिर्भान्ति ॥ १८ ॥ ऋषिकल्पजवनितार्था ज्योतिर्वन भवनयुवतिभावनजाः । ज्योतिष्क कल्पदेवा नरतिर्यंचो वसति तेष्वनुपूर्वम् ॥ १९ ॥ वैड्र्योतमकांचनविलसद्वरसकल रत्नवर्णानि । अष्टचतुश्चतुरिष्वासोन्नतिमंति त्रिपीठानि ॥ २० ॥ प्रस्फुरितधर्मचक्रैर्यक्षपतिभिरुद्धतैर्महाभक्त्या |
mputati
१३५
चतुराशासु विराजति कृतार्चनं प्रथमपीठतलम् ॥ २१ ॥ अरिगजवृपहरिकमलांबरध्वजखगपतिपुष्पमालाख्यैः । विलसत्केतुभिरष्टभिरनुपमपूज्यं द्वितीयपीठतलम् ॥ २२ ॥ षट्शतरुद्रायामा साधिकनवशतधनुः समुत्तुंगा । प्रथमे शेषेषूना गंधकुटी स्यात्तृतीयपीठतले || २३ || रुद्रलं ६०० | उदये ९०० । तन्मध्यस्थितसिंहासनमध्ये शोणमंबुजं रमणीयम् । दशशतदलसंयुक्त तन्मध्ये कनककर्णिकायामुपरि ॥२४॥ चतुरंगुलगगनतले निविष्टवान् विमलकेवलज्ञानी । लोकालोकविलोकी धर्माधर्मौ जिनो वक्ति ||२५|| प्रहतघनघातिदोषश्चतुरधिकत्रिंशदतिशयैश्वर्ययुतः सोऽनंतचतुष्टयभाको ट्यादित्यप्रकाशसंकाशचपुः ॥ २६ ॥ क्षुभात् प्रागप्रमोहचिंता जरा रुजा मृत्युः । स्वेदः खेदमदोरतिविस्मय निद्राजन्द्वेगः ||२७|
।