________________
१२२
सिद्धान्तसारादिसंग्रहे
अक्षयो ह्यन्ययः शान्तः शान्तिकल्याणकारकः। खयंभूविश्वश्वा च कुशलः पुरुषोत्तमः ॥५४॥ नामाष्टकसहस्रेण युक्त मोक्षपुरेश्वरं । ध्यायेत परकार का मोक्षपौर प्रहायण : शुद्धस्फटिकसंकाश स्फुरन्तं ज्ञानतेजसा । गणीदशभियुक्तं ध्यायेदर्हन्तमक्षयम् ।। ५६ ॥ सिंहासनसिनच्छत्रचामरादिविभूतिभिः । युक्तं मोक्षपुरं देवं ध्यायेन्नित्यमनाकुलम् ॥ ५७ ॥ कल्याणातिशयैराढयो नबकेवललब्धिमान् । समस्थितो जिनो देवः प्रातिहार्यपत्तिः स्मृतः ॥५८॥ सर्वज्ञः सर्वक सार्यो निर्मलो निष्कलोऽव्ययः । वीतरागः पराध्येयो योगिनां योगगोचरः ।। ५९ ॥ सर्वलक्षणसम्पूर्ण निर्मले मणिदर्पण । संक्रान्तबिम्बसादृश्यं शान्तं संचेतयेऽद्भुतम् ॥ १० ॥ येन जितं भवकारणसर्व __ मोहमलं कलिकाममलं च । येन कृतं भवमोक्षसुतीर्थ
सोऽस्तु सुखाकरतीर्थसुकर्ता ॥ ६१ ।। क्षीणचिरन्तनकर्मसमूहो
निष्ठितयोगसमस्तकलापः । कोमलदिव्यशरीरसुभासः सिद्धिगुणाकरमौख्यनिधिश्च ॥६२॥