________________
१२०
सिद्धान्तसारादिसंग्रहे
वासवाद्यैः सुरैः सर्वैः योज्यते मेरुमस्तके | प्राप्तवान् पंचकल्याणं वासुदेवस्ततो हि सः ||३२|| अनन्तदर्शनं ज्ञानं कर्मारिक्षयकारणम् । यस्यानन्तसुखं वीर्यं सोऽनन्तोऽनन्तसद्गुणः ||३३|| सर्वोत्तमगुणैर्युक्त प्राप्तं सर्वोत्तमं पदम् । I सर्वभूतहितो यस्मात्तेनासौ पुरुषोत्तमः ||३४|| प्राणिनां हितवेदोक्त ? नैष्ठिकः सङ्गवर्जितः । सर्वभावश्चतुर्वक्त्रो ब्रह्मासौ कामवर्जितः ||३५|| यस्य वाक्यामृतं पीत्वा भव्या मुक्तिमुपागताः । दत्तं येनाभयं दानं सत्वानां स पितामहः || ३६॥ यस्य पासानि रत्ना | शक्रेण भक्तियुक्तेन रत्नगर्भस्ततो हि सः || ३७ ॥ मतिश्रुतावधिज्ञानं सहजं यस्य बोधनम् । मोक्षमार्गे स्वयं बुद्धस्तेनासौ बुद्धसंज्ञितः ॥ ३८ ॥ केवलज्ञानबोधेन बुद्धवान् स जगत्रयम् । अनन्तज्ञानसंकीर्ण तं तु बुद्धं नमाम्यहम् ||३९||
सवार्थभाषया सम्यक् सर्वलेशप्रघातिनाम् । सत्वानां बोधको यस्तु बोधिसत्वस्ततो हि सः ॥ ४० ॥
सर्वद्वन्द्व विनिर्मुक्तं स्थानमात्मस्वभावजम् । प्राप्तं परमनिर्वाणं येनासौ सुगतः स्मृतः ॥४१॥ सुप्रभातं सदा यस्य केवलज्ञानरश्मिना । लोकालोकप्रकाशेन सोऽस्तु भव्यदिवाकरः || ४२॥