________________
११८
सिद्धान्तसारादिसंग्रहे
नष्टाः क्षुतद्भयस्वेदा नष्टं प्रत्येकयोधनम् । भूमिगत नष्टं चेन्द्रिय सुखम् ॥१०॥ नष्टा सहजा छाया नष्टा चेन्द्रियजा प्रभा । नष्टा सूर्यप्रभा तत्र सूतेऽनन्तचतुष्टये || ११|| तदा स्फटिकसंकाशं तेजोमूर्तिमयं वपुः । जायते क्षीणदोषस्य सप्तधातु विवर्जितम् ||१२|| सकलग्राहकं ज्ञानं युगपद्दर्शनं तदा । अन्याबाधसुखं वीर्य एतदाप्तस्य लक्षणं ||२३|| त्रैलोक्यक्षोभका होते जन्ममृत्युजरादयः । ध्वस्ता ध्यानाशिना येन स आप्तः परिपठ्यते || १४ || क्षुधा तृषा भयं द्वेपो रागो मोहव चिन्तनम् | जरा रुजा च मृत्युश्च स्वेदः खेदो मदो रतिः ॥ १५॥ विस्मयो जननं निद्रा विषादोऽष्टादश धुवाः । त्रिजगत्सर्वभूतानां दोषाः साधारणा इमे ||१६||
युग्मम् ।
एतैर्दोषैर्विनिर्मुक्तः सोऽयमाप्तो निरञ्जनः । विद्यन्ते येषु ते नित्यं तेऽत्र संसारिणः स्मृताः ॥ १७॥ संसारो मोहनीयस्तु प्रोच्यतेऽत्र मनीषिभिः । संसारिभ्यः परो ह्यात्मा परमात्मेति भाषितः || १८ || सर्वज्ञः सर्वतो भद्रः सर्ववदनो विभुः । सर्वभाषः सदा वन्द्यः सर्वसौख्यात्मको जिनः ॥१९॥ अन त्रैलोक्यसाम्राज्यं अर्हन् पूजां सुरेशिनाम् । हतवान् कर्मसम्पूर्त अर्हनामा ततः स्मृतः ॥ २० ॥