________________
आप्तस्वरूपम् ।
आप्तागमः प्रमाण स्याद्यथाचवस्तुमचकः । यस्तु दोपैविनिर्मुक्तः सोऽयमाप्तो निरञ्जनः ॥१॥ दोषावरणमुक्तात्मा कृत्स्नं वेत्ति यथास्थितम् । सोऽहस्तत्वागमं वक्तुं यो मुक्तोऽनृतकारणः ॥२॥ आगमो ह्याप्तवचनमासं दोषक्षयं विदुः । त्यक्तदोषोऽनृतं वाक्यं न ब्रूयादित्यसम्भवात् ॥३॥ रागाहा द्वेपमोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैव च दोषास्तस्थानृतकारणं नास्ति ? ॥४॥ पूर्वापरविरुद्धादेव्यपेतो दोषसंहतेः । द्योतकः सर्वभावानामाप्तव्याहतिरागमः ।।५।। ध्यानानलप्रतापेन दग्धे मोहेन्धने सति । शेषदोपास्ततो ब्यस्ता योगी निष्कल्मषायते ॥६॥ मोहकर्मरिपो नष्टे सर्वे दोषाश्च विद्रुताः । छिन्नमूलतरोर्यद्वद् ध्वस्त सैन्यमराजबत् ॥७॥ नई छमस्थविज्ञानं नष्ट केशादिवर्धनम् | नई देहमलं कुत्स्नं नष्टे घातिचतुष्टये ॥८॥ नष्टं मर्यादविज्ञानं नष्टं मानसगोचरम् । नष्टं कर्ममलं दुष्टं नष्टो वर्णात्मको ध्वनिः ॥९॥
१ द्वेषावा मोहादा पुस्तके-पाठः ।