________________
११०
सिद्धान्तसारादिसंग्रहे
लवण समुद्रादयोऽसंख्यातद्वीपसमुद्राः ॥ ९ ॥ तत्रावृतीयद्वीपसमुद्रो मनुष्य क्षेत्रम् | १० || पण्णवतिकुभोगभूमयः ॥ ११॥ पंचमन्दरगिरयः ||१२|| जम्बूवृक्षाः।। १३ ।। शाल्मलयश्च ॥ १४॥ विंशतिर्यमकगिरयश्च ॥ १५ ॥ शतं सरांसि || १६ || सहस्रं कनकाचलाः || १७||चत्वारिंशदिग्गज नगाः || १८ || शतं वक्षारक्ष्माधराः ।। १९ ।। षष्टिविभंगनद्यः ॥ २० ॥ षष्ठयुत्तरशतं विदेहजनपदाः ॥ २१ ॥ पंचदशकर्मभूमयः || २२ || शिद्धोगभूमयः ॥ २३ ॥ चतुत्रिंशद्वर्षधरपर्वताः ॥ २४ ॥ त्रिंशत्सरोवराः ।। २५ ।। सप्ततिमहानद्यः || २६ ॥ विंशतिर्नाभिभूधराः ॥ २७ ॥ सप्तत्यधिकशतं विजयार्धपर्वताः ||२८|| वृषभ गिरयश्चेति ||२९|| देवाश्चतुर्णिकायाः ||३०|| भवनवासिनो दशविधाः ||३१|| अष्टविधा व्यन्तराः ||३२|| पंचविधा ज्योतिष्काः ॥ ३३ ॥ द्वादशविधा वैमानिकाः ||३४|| षोडशस्वर्गाः ||३५|| नवग्रैवेयकाः || ३६ || नवानुदिशाः ||३७|| पंचानुत्तराः ||३८|| त्रिषष्टिपटलानि ॥ ३९ ॥ इन्द्रकाणि च ॥४०॥ | पोडशोत्तराष्टशतान्वितसप्तसहस्रं श्रेणिचद्धानि ॥ ४१ ॥ षट्चत्वारिंशदुत्तरैकशतानीतनवत्यशीतिसहस्रालङ्कृतचतुरशीतिलक्षं प्रकीर्णकानि || ४२ ॥ त्रयोविंशत्युत्तरसप्तनवतिसहस्रान्वितचतुरशीतिलक्षमेवं विमानानि ॥ ४३ ॥ ब्रह्मलो - कालयाश्चतुर्विंशतिलौकान्तिकाः ।। ४४ ।। अणिमाद्यष्टगुणाः || ४५ ॥
इति शास्त्र सारसमुच्च द्वितीयोऽध्यायः ॥ २ ॥
अथ पंचलब्धयः || १ || करणं त्रिविधं ||२|| सम्यक्त्वं द्विविधम् ||३|| त्रिविधम् ||४|| दशविधं वा ||५|| तत्र वेदकस