________________
श्रीमाघनन्दियोगीन्द्र-विरचितः
शास्त्रसारसमुचयः ।
श्रीमन्नम्म्रामरस्ता प्राप्तानन्तचतुष्टयम् । नत्या जिनाधिपं वक्ष्ये शाखसारसमुञ्चयम् ॥ १ ॥
अथ त्रिविधः कालो द्विविधः पड्डिधो वा ॥ १ ॥ दशविधाः कल्पद्रुमाः ।। २ ॥ चतुर्दश कुलङ्करा इति ।। ३ ।। पोडशभावनाः ॥ ४ ॥ चतुर्विंशतितीर्थकराः ॥५॥ चतुस्त्रिंशदतिशयाः ॥६॥ पंच महाकल्याणानि ।। ७॥ घातिचतुष्टयम् ॥ ८ ॥ अष्टादश दोषाः ।। ९ ।। समवशरणैकादशभूमयः ।। १० ।। द्वादशगणाः ॥११॥ अष्टमहाप्रातिहायोणि ॥१२॥ अनन्त चतुष्टयमिति ॥ १३॥ द्वादशचक्रवर्तिनः ॥१४॥ सप्ताङ्गानि ॥ १५॥ चतुर्दशरत्नानि ॥१६|| नवनिधयः ॥१७॥ दशाङ्गभोगा इति ॥ १८ ॥ नवबलदेववासुदेवनारदाश्चेति ॥ १९ ।। एकादशरुद्राः ॥ २० ।।
इति शास्त्रसारसमुच्चये प्रथमोऽध्यायः ।। १ ।।
अथ त्रिविधो लोकः ॥ १ ॥ सतनरकाः ॥ २॥ एकान्न. पंचाशत्पटलानि ॥३॥ इन्द्रकाणि च ॥४॥ चतुरुत्तरषट्च्छतनवसहस्रं श्रेणिवद्धानि ।। ५॥ सप्तचत्वारिंशदुत्तरत्रिंशताधिकनवतिसहस्रालंकृतव्यशीतिलक्ष विलानि प्रकीर्णकानि ॥६॥ एवं चतुरशीतिलक्षविलानि॥७॥चतुर्विधं दुःखमिति |८|| जम्बूद्वीप