SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारादिसंग्रहे AAAAAA दशन्ति तं न नागाद्या न ग्रसन्ति च राक्षसाः। न रोगाश्चापि जायन्ते यः सरेन्मंत्रमव्ययम् ॥४३॥ रात्रौ स्मृतनमस्कारः सुप्तः स्वप्नान शुभाशुभान् । सत्यानेव समाप्नोति पुण्यं च चिनुते परम् ॥४४॥ नित्यनैमित्तिकाः कार्याः क्रियाः श्रेयार्थिना मुदा । ताभिग्रॅडमनस्को यत्पुण्यपण्यसमाश्रयः ।।४५|| अष्टम्यां सिद्धभक्त्यामा श्रुतचारित्रशान्तयः । भवन्ति भक्तयो नूनं साधूनामपि सम्मतिः ॥४६|| पाक्षिक्यः सिद्धचारित्रशान्तयः शान्तिकारण | त्रिकालवंदनायुक्ता पाक्षिक्यपि सतां मता ॥४॥ चतुर्दश्यां तिथौ सिद्धचैत्यश्रुतसमन्विते । गुरुशान्तिनुते नित्यं चैत्यपश्चगुरू अपि ॥४८॥ नन्दीश्वरदिने सिद्धनन्दीश्वरगुरुचिता । शान्तिभक्तिः प्रकर्तव्या बलिपुष्पसमन्विता ॥४९॥ क्रियास्वन्यासु शास्त्रोक्तमार्गेण करणं मता। कुर्वन्नेवं क्रियां जैनो गृहस्थाचार्य उच्यते ॥५०॥ चिदानन्दं परं ज्योतिः केवलज्ञानलक्षणं । आत्मानं सर्वदा ध्यायेदेतत्तत्वोत्तमं नृणाम् ॥५१॥ गार्हस्थ्यं वाधरूपेण पालयन्नन्तरात्ममुत् । मुच्यते न पुनर्दुःखयोनावतति निश्चितम् ॥५२|| कृतेन येन जीवस पुण्यबन्धः प्रजायते । तस्कर्तव्यं सदान्यत्र न कुय्योदतिकल्पितम् ॥५३॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy