________________
९०
सिद्धान्तसारादिसंग्रहे
सत्साम्यभावगिरिगहरमध्यमेत्य
पद्मासनादिकमदोषमिदं च बद्ध्वा । आत्मानमात्मनि सखे ! परमात्मरूपं त्वं ध्याय वेत्सि ननु येन सुख समाधेः ॥२८॥
आत्माराधना । आराध्य धीर ! चरणा सततं गुरूपां
लब्ध्वा ततो दशममाघरोपदेश । · तस्मिभिधेहि मनसः स्थिरतां प्रयन्नात शोषं प्रयाति तब येन भवापगेयम् ।। २९ ।।
फलम् । नित्यं निरामयमनन्तमनादिमध्य
महन्तमूर्जितमजं स्मरतो हृदीशम् । नाशं न याति यदि जातिजरादिकं ते ___ तर्हि श्रमः कथमयं न मदा मुनीनाम् ॥ ३० ॥ क्षीराम्बुराशिसशांशु यदीयरूप
माराध्यसिद्धिमुपयान्ति तपोधनास्त्वं । हहो स्वहसहरिविष्टरसन्निविष्टमहन्तमक्षरमिद स्मर कर्ममुक्तये ॥ ३१ ॥
पदस्थः । यं निष्कलं सकलमक्षयकेवलं वा
सन्तः स्तुवन्ति सतत समभावभाजः । वाच्यस्य तस्य वरवाचकमन्त्रयुक्तो
हे पान्थ । शाश्वतपुरी विश निर्विशङ्कः ॥ ३२ ।।