________________
स्वानीति दर्शयति- ' तं जड़े 'त्यादि, तद्यथा' आत्मार्थाय स्वप्रयोजनकृते दण्डो ऽर्थदण्डः--पापोपादानं १, तथाऽनर्थदण्ड प्रतिनियोजनदेव सायकियानुष्ठानमनर्थदण्डा २ तथा हिंसा - प्राण्युपमईरूपा तथा दण्डो हिंमादण्डः २, तथाSकस्माद्दण्डः (१) अनुपयुक्तस्य [ दण्डः ] अकस्माद्दण्डा, अन्यस्य क्रिययाऽन्यस्य व्यापादनम् ४ । तथा दृटेर्विपर्यासो रज्ज्चामि सर्पबुद्धिः, तथा दण्डो दृष्टिविपर्यासदण्डस्तद्यथा-लेष्ठुकाष्ठादिबुद्धया शराद्यभिघातेन चटकादिव्यापादनम् ५, तथा मृषावादप्रत्ययिकः, स च सद्भूतनिवासद्भूतारोपणरूपः ६, तथा अदत्तस्य परकीयस्य ग्रहणं स्तैन्यं तत्प्रत्ययिको दण्डः ७, तथाऽध्यात्मदण्डो - निर्निमित्तमेव दुर्मना उपहतमनः संकल्पो हृदयेन दूयमानथिन्यासागरावगाढः संतिष्ठते ८, तथा जात्याद्यष्टमदस्थानोपहतमनाः परावहेलारूपस्तस्य मानप्रत्ययिको दण्डो भवति ९, तथा मित्राणामुपतापेन दोषो मित्रदोषस्वत्प्रस्यथिको[दण्डो] भवति १०, तथा 'माया' परवश्चन बुद्धिस्तया दण्डो माया [प्रत्ययिको] दण्डः ११, तथा लोभप्रत्य frat - लोमनिमित्तो दण्ड इति १२, तथा पञ्चसमितित्रिगुप्तिभिरुप युक्त स्ये र्या प्रत्ययिका सामान्येन कर्मवन्धो भवति १३, एतच्च त्रयोदशं क्रियास्थानमिति । अथानुक्रमेण क्रियास्थानानि व्याख्यानयति —
पढमे दंडसमादाणे अट्ठादंडवन्तिपत्ति आदिअइ, ( + तं जहा - ) से जहा नामए केइ पुरिसे आय हेउं वा पाइहेउं वा अगारहेडं वा परिवारहेडं वा मित्तहेउं वा नागहेउं वा भूयहेउं वा + नास्ति बहुस्त्रादर्शेध्वयं पाठयोदशस्वपि क्रियास्थानसूत्रेषु ।