________________
निर्जीवीकृतं वर्णगन्धरसादिभिश्व परिणामितं, हिंसां प्राप्तं हिंसितं विरूपं हिंसितं विहिंसितं, न सम्यनिर्जीवीकृतमित्यर्थः, तत्प्रतिषेधादविहिंसितं निर्जीवमित्यर्थः । तदप्येपिवेदितं पिवाचफेरिदित बाई ' हिलियं वैषिकमिति harya+, तदपि ' सामुदानिकं ' मधुकरवश्यावाप्तं सर्वत्र स्तोकं स्तोकं गृहीतं, तदपि गीतार्थेनोपात्तमानीतं तदपि वेदना वैयावृत्यादि के कारणे सति तदपि प्रमाणयुक्तं, नाऽतिमात्रं, तदपि न वर्णबलाद्यर्थं किन्तु यावन्मात्रेणाऽऽहारेण देहः क्रियासु वर्त्तते, यथाऽक्षस्योपासनं अभ्यङ्गो व्रणस्य ' लेपनं ' [ व्रण ] लेपस्तदुपमया आहारमाहरेत् । उक्तं च"अभंगेण व सगडं, न तरह बिगड़ं विणा उ जो साहू । सो रागवोसरहिओ, मत्ताऍ बिहीह तं सेवे ॥११॥ " एतदेव दर्शयति-संयमयात्रायां मात्रा संयमयात्रा [ मात्रा ], यावत्याऽऽहारमात्रया संयमयात्रा प्रवर्त्तते । तथा बिलप्रवेशपन्नगभूतेनात्मना आहारमाहरेत्, यथा पत्रगो जिले प्रविशेस्तूर्णमेत्र प्रविशति एवं साधुनाप्याहारस्तत्स्वादमनास्वादयता शीघ्रं प्रवेशयितव्य इति । तदपि ' अन्नं अन्नकाले ' सूत्राथपौरुष्युत्तरका [लं ] ले (2) भिक्षाकाले प्राप्ते, तथा पानके पानककाले* तथा ब बस्त्रकाले गृहीया - दुपभोगं वा कुर्यात् । तथा ' लयनं' गुद्दादिकमाश्रयस्तस्य वर्षास्ववश्यमुपादानम न्या त्वनियमः । तथा शय्यासंस्तारकः, स च शयनकाले । तत्राप्यगीतार्थानां प्रहरद्वयं निद्राविमोक्षो गीतार्थानान्तु
+ " न पुनर्जास्थायाजीवनतो निमित्तादिना बोत्पादित "मिति बृहद्वृत्तौ ।
X अभ्यङ्गेनेव शकटं न शक्नोति विकृति विनैव यः खाधुः । स रागद्वेषरहितो मात्रया विधिना तां सेवेत ॥ १ ॥ *" न तृषितो भुञ्जीत न बुभुक्षितः पानकं पिबेत् । " इति हर्ष० ।