________________
,
मत्सु सन्धिबन्धनेषु बलादवश्यं भ्रश्यते । तथा वर्णाश्वचश्छायातोऽपचीयते । अत्र सनत्कुमारचक्रिणो दृष्टान्तो वाच्यः । तथा जीर्यति शरीरे श्रोत्रादीन्द्रियाणि हीयन्ते । तथा च वयोहान्या ' सुसन्धितः सुबद्धः 'सन्धि' जनुकूर्षरादिको विसन्धिर्भवति-बिग[लि]तबन्धनो जायते । तथा वलितरङ्गाकुलं सर्वतः शिरा ( नाड़ी )जालवेष्टितमिदं वपुरुद्वेगकृद्भवति । तथा कृष्णाः केशाः वयोहान्या घवला जायन्ते । ततो वयःपरिणामे सन्मतिरेवं भावयेत् तथाहि यदपीदं शरीरं उदारत्रोमं विशिष्टाहारोपचितं एतदपि ममावश्यं प्रतिक्षणं विशीर्यमाणमायुषः क्षये विप्रहाराज्यं भविष्यतीत्येतदवगभ्य - संख्याय परित्यक्तसमस्तगृह प्रपञ्चो निष्क्रितापगम्य संयमयात्रा मिद्याचयायां समुत्थितः सन् द्विधा लोकं जानीयात् । तदेव लोकद्वैविध्यं दर्शयति-' जीवा चेव अजीवा चेव, तसा चेव थावरा श्रेय' तत्र जीवाः प्राणधारणलक्षणास्तद्विपरीता अजीवा धर्मास्तिकायादयः, तत्र भिलोरहिंसाप्रसिद्धये जीवान् विभागेन दर्शयति-इह खलु जीवा अपि द्विधा - त्रसाः स्थावराय, तेऽपि सूक्ष्मवादरपर्याप्ता पर्याप्तकभेदेन बहुधा द्रष्टव्याः । एतेषु चोपरि बहुधा व्यापारः प्रवर्त्तते । अथ तदुपमर्दकव्यापारकर्तन् दर्शयितुमाह
इह खलु गारत्था सारंभा सपरिग्गद्दा, संतेगतिया समणा माहणा वि सारंभा सपरिग्गहा, जे इमे तसा थावरा पाणा, ते सयं समारंभंति, अत्रेण वि समारंभाविति, अन्नं पि समारंभंतं समणुजाणंति । उपाख्या - इह खलु संसारे गृहस्थाः ' सारम्भाः ' जीवोपमर्दकारिणो वर्तन्ते सपरिग्रहाच वर्तन्ते, न केवलं गृहस्था