SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ दुःखोत्पादिकाः क्रियाः समारभते । नियत्यैवारमा अनिच्छापि तत्कार्यते येन दुःखी भवेत् । कारणमापन इति परेऽप्येवमायोजन (या) यम् । एवं स नियतिवादी दृष्टं पुरुषकारं परित्यज्य [अद्दष्ट] नियतिपक्षाश्रयणेन महाऽविवेकी स्वकारणं परकारणं च दुःखशोकादिकमनुभवन्नियविकृतमित्येवं विप्रतिवेदयति, नात्मना कृतं । कारणं चात्रैकस्या[सदनुष्ठानरवस्था ] पि न दुःखमुत्पद्यते परस्य तु सदनुष्ठायिनोऽपि तद्भवतीत्यतो नियतिरेव कर्त्रीति नियतिवादे स्थिते परमपि यत्कि[िच]त्सर्वं नियत्यधीनमिति दर्शयितुमाह से बेमि- पाइणं वा ४ जे तस्थावरा पाणा ते एवं संघायमागच्छति, ते एवं विपरियासमाजंति, ते एवं विवेगमागच्छति, ते एवं विद्वाणमागच्छंति, ते एवं संगतियंति उवेहाए नो एवं विप्पडिवेदेति । तं जहा व्याख्या -सोsहं नियतिवादी ' त्रवीमि ' प्रतिपादयामि, ये केवन प्राच्यादिषु दिक्षु श्रसाः स्थावराश्च प्राणिनस्ते सर्वेऽप्येवं नियतित एवौदारिकादिशरीरसम्बन्धमागच्छन्ति नान्येन केनचित्कर्मादिना शरीरं ग्राह्यन्ते, तथा बालकुमार-यौवन-स्थविर - वृद्धावस्थादिकं विविधं पर्याय नियतित एवानुभवन्ति, तथा नियतित एव ' विवेकं शरीरात्पृथग् भावमनुभवन्ति तथा नियतित एव विविधं विधानं ' अवस्थाविशेषं कुन्जकाणस्वञ्जवामन कजरामरणं रोगशोकादिकं बीभत्समागच्छन्ति । तदेवं ते प्राणिनखसाः स्थावरा ' एवं ' पूर्वोक्तया नील्या सङ्गतिं यान्ति-नियतिमापसाः नानाविध
SR No.090470
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherMotichand Maganchand Choksi
Publication Year1962
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy