________________
एवं तेनार्या अनार्यकर्मकारित्वाद्विरुद्धं मार्गों विप्रतिपत्र ' माणा ' तमात्मीयमेव कुमतं पश्च महाभूतात्मक start स्तमेव च सत्यमित्येवं ' प्रतीयन्तः प्रतिपद्यमानास्तमेव स्वपक्षं रोचयन्तस्तद्धर्मस्याऽऽख्यातारं प्रशंसयन्तः • स्वाख्यातो धर्मो भवता, अस्माकमयं धर्मोऽत्यन्तमभिप्रेतः, सावधानुष्ठानेनाप्यधर्मो न भवतीत्यध्यवसायिनः स्त्रीकामेषु मूर्च्छिताः इत्येवं पूर्ववत्रेयं यावदन्तरे कामभोगेषु विषण्णाः ऐहिकामुष्मिको भय कार्य भ्रष्टाः नात्म[नः ] त्राणाय नापि परेपामिति । एवं द्वितीयः पुरुषजातः पञ्च महाभृताभ्युपगमिको व्याख्यात इति, साम्प्रतं तृतीयपुरुषं ईश्वरकारणिकमधिकृत्याद्द
अहावरे सच्चे पुरिसजाए ईसरकारणिएत्ति आहिज्जति, इह खलु पाईणं वा ४ संतेगइया मनुस्सा भवंति अणुपुवेणं लोयं. उववन्ना, तंजहा - आरिया वेगे, जाब तेर्सि चणं महंते एगे राया भवति जात्र सेणावतिपुत्ता, एतेसिं च णं एगतीए सड्डी भवति । कामं तं समणा य माहणा य पहारिंसु गमणाए जाव जहा मए एस धम्मे सुअक्खाए सुपन्नत्ते भवति ।
व्याख्या -- तदेवमीश्वरकारणिक आत्माद्वैतवादी वा तृतीयः पुरुषजात आख्यायते । इह खलु पुरुष प्रस्तावे स्खलु शब्दो वाक्यालङ्कारे, प्राच्यादिषु दिवन्यतरस्यां दिशि व्यवस्थितः कश्विदेवं ब्रूयात्, तद्यथा-राजानमुद्दिश्य तावद्यावत्त्वाख्यातः इत्यादि सर्वे पूर्ववदवगन्तव्यं । अथ च ईश्वरप्रणीत जगदिदं मन्यते स कस्यापि राज्ञः समीपमागत्य आत्माभिप्रेतं धर्म प्ररूपयति