SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ व्याख्या-इह खलु द्वितीया पुरुषजातः पञ्चभिः [भूतैः पृथिव्यप्तेजोवाबाकाशैश्चरति पचभूतिका, स च सॉख्यमतावलम्बी । स प्रथमपुरुषवद्यावद्राजसमामागत्य स्वीयं धर्म यया प्रकाशयति तथा[ दर्शयितमाह-- इह खलु पंच महाभूता, जेहि नो किज्जति किरियाति वा अकिरियाति वा, सुकडेति वा दुक्कडेति वा, कल्लाणएति वा पावएति वा, साइति वा असाहति वा, सिद्धित्ति वा असिद्धित्ति वा, निरएति वा अनिरएति वा, इति [अवि] अंतसो तणमातमवि । तं पिहुद्देसेणं पुढो भूतसमवातं जाणेजा, तंजहा___ व्याख्या-'इह ' द्वितीय पुरुषवक्तव्याधिकारे, खलु शब्दो वाक्यालकारे, पृथिम्यादीनि पञ्च महाभूतानि विद्यन्ते । देषों प सर्वव्यापितया अभ्युपगमान्महवं, पञ्चैव, परस्य षष्ठस्य क्रियाकरीत्वेनानम्युपगमात् । पञ्च भूतानि कार्यकारीणि, न कोऽपि षष्ठः पदार्थोऽस्ति । साङ्खचानां हि मते पंच महाभूतान्येव सर्वक्रियाकारीणि, न कोऽपि षष्ठः आत्माख्या पदार्थः । स तु किमपि न करोति, यतस्तन्मत-" अमूर्तश्चेतनो भोगी, नित्यः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म, - आत्मा कापिलदर्शने ॥ १५ ॥" साङ्खया एवं वदन्ति-पञ्चभूतैरभ्युपगम्यमानों-ऽस्माकं 'क्रिया' परिस्पन्दामिका चेष्टारूपा [अक्रिया वा-निर्व्यापारतया स्थितिरूपा] क्रियते, तथाहि-सॉख्यानां दर्शन सच्चरजस्तमोरूपा प्रकृतिः सर्वा अर्थक्रियाः करोति, पुरुषः केवलमुपमुळे, तस्याश्च प्रकृतेर्भूतात्मिकायाः सत्वरजस्तमसां चयापचयाम्या क्रियाऽक्रिये स्यातामिति कृत्वा भूतेभ्य एव क्रियादीनि प्रवचन्ते, भूतव्यतिरेकेणापरस्याभावादिति भावः । तथा सकृतं सचगुणाधिक्येन मपति
SR No.090470
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherMotichand Maganchand Choksi
Publication Year1962
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy