________________
यथा महति पङ्के निमग्नो दुःखेनात्मानमुद्धरत्येवं विषयेष्वप्यासको नात्मानमुद्धर्तुमलमित्येतत् कर्द्दमविषययोः साम्यमिति । 'जना: ' सामान्यलोका: 'जानपदा' विशिष्टार्यदेशोत्पन्नाः गृह्यन्ते, ताँश्च समाश्रित्य मया दार्शन्तिकत्वेनाङ्गीकृत्य तानि बहूनि पद्मवरपुण्डरीकाणि दृष्टान्तत्वेनाभिहितानि । राजानमात्मन्याहृत्य तदेकं पद्म वरपुण्डरीकं दृष्टान्तत्वेनाभिहितम् । तथाऽन्यतीर्थकान् समाश्रित्य ते चत्वारः पुरुषजाता अभिहितास्तेषां राजपुण्डरीकोद्धरणसामर्थ्य वैकल्यात् । तथा धर्म व खल्लामन्याहृत्य श्रमणायुष्मन् । स भिक्षुः रूक्षवृचिरभिहितः, तस्यैव चक्रवर्त्यादिराजपद्म वरपुण्डरीकस्योद्धरणसामर्थ्य सद्भावाद | धर्म्मतीर्थं च खल्वाश्रित्य मया तचीरमुक्तम् । तथा सद्धर्मदेशनां चाश्रित्य मया स भिक्षोः सम्बन्धी शब्दोऽभिहितः । तथा ' निर्माणं ' मोक्षगदमशेष कर्मक्षयरूपसोपस्कार माराख्य भूभागोपर्यवस्थितं क्षेत्रखण्डं चात्मन्याहृत्य स पद्मवत्पुण्डरीकस्योत्यातोऽमिहितः । ' एवं ' पूर्वोक्तप्रकारेण [ ए ] तल्लोकादिकं च खल्वात्मन्याहृत्य - आश्रित्य मया श्रमणायुष्मन् ! ' से ' एतत्पुष्करिण्यादिकं दृष्टान्तत्वेन किञ्चित्साधम्र्यादेवमुक्तमिति ॥ ८ ॥ एतावता सामान्येन दृष्टान्तदान्तिक योजना कृता, अथ विशेषेण प्रधानभूतराजदार्शन्तिकं तदुद्धरणार्थत्वात् सर्वप्रयासस्येति दर्शयितुमाह
इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगतिया मणुस्सा भवति । अणुपुणं लो[ ] गतं (?) उववन्ना, तं जहा - आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीयागोया वेगे का मंता वेगे [र]हस्समंता वेगे सुवण्णा वेगे दुबन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च