________________
$
निन्दितं जुगुप्सितं निर्विवेकिजनाचरितं स्थानं कर्मानुष्ठानरूपं 'ह' जगति आ[वसन्ति ]सेवन्ति आजीविका हेतुमात्रपन्ति ये च सदुपदेशवार्जुनोऽस्मिलोके 'चरणेन' विरविपरिणामरूपेणोपेताः समन्वितास्तेषानुभयेषामपि यदनुष्ठानं [शोभना ] शोभनरूपमपि सर्वज्ञैः समं तुल्यं ' उदाहृतं ' उपन्यस्तं ' स्वमत्या' स्वाभिप्रायेण मो एकदण्डिन् । तं विपरीतमति [ए] जानीहि सम्यग्मम्यधम्र्मयोः कथं साम्यं स्यादिति गाथार्थः ।। ५१ ।। तदेवमेकदण्डिनो निराकृत्याककुमारी यावद्भगवदन्तिकं व्रजति वावद्धस्तितापसाः परिवृत्य तस्थुरिदं च प्रोचुरित्याह
संवछरेणात्रि य एगमेगं, बाणेण मारेड महागयं तु ।
सेसाण जीवाण दयट्टयाए, वासं वयं वित्ति पकप्पयामो ॥ ५२ ॥
व्याख्या - हस्तिनं व्यापाद्यात्मनो वृत्ति कल्पयन्तीति दस्तितापसास्तेषां मध्ये कश्चिद्धतम एतदुवाच तद्यथाभो आर्द्रकुमार ! सश्रुति केनाल्पबहुत्वमालोचनीयं तत्र येऽमी तापसाः कन्दमूलफलाशिनस्ते बहूनां सच्चानां स्थावराणां तदाश्रितानां चोदुम्बरादिषु जङ्गमानामुपघाते वर्त्तन्ते, येऽपि च भैक्ष्येणात्मानं वर्त्तयन्ति तेऽप्याशंसाशेषदूषिता इततथाटायमानाः पिपीलिकादिजन्तूनामुपघाते वर्त्तन्ते वयं च संवत्सरेण अपिशब्दात् षण्मासेन चैकैकं दस्तिनं महाकार्य बाणप्रहारेण व्यापाद्य शेपसच्चानां दयार्थमात्मनो वृत्ति [ वर्षमेकं यावत् ] कल्पयामः । तदेवं वयमल्पसच्योपघातेन प्रभूततरसानां रक्षां कुर्म इति गाथार्थः ॥ ५२ ॥ साम्प्रतमेतदाद्रकुमारो हस्तितापसतं दूषयितुमाह-