SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ व्याख्या - अहो भिक्षवः । एवंविधाभ्युपगमे युष्माभिरेत्र लब्धः ' अर्थो' विज्ञानं यथावस्थितं तत्व मिति तथाज्यगतः सुचिन्तितो भवद्भिर्जीवानामनुभागः कर्मविपाकस्तत्पीडा इति, तथा एवम्भूतेन विज्ञानेन भवतां पद्यः पूर्व समुद्रमपरं समुद्रं च स्पृष्टं गतमित्यर्थः तथा भत्रद्भिरेवं [विष] विज्ञानावलो केनावलोकितः पाणितलस्थित इवायं लोक इति अहो ! मत्रतां विज्ञानातिशयो !! यहुत-पिण्याकपुरुषयोरला बुकवाल कयोत्र बाते [ पापस्य ] कर्म्मणो भावाभावं श्राक् कल्पितवन्तो भवन्स वि गाथार्थः ॥ २४ ॥ अथार्द्रकः परपक्षं दूषयित्वा स्वपक्षस्थापनायाह जीवाणुभागं सुविचिंतयंता, आहारिया अन्नविहीइ सोहिं । न वियागरे छन्नपओपजीवी, एसोऽणुधम्मो इह संजयाणं ॥ ३५ ॥ , व्याख्या - जिनश्रायनप्रतिपन्नाः [ सर्वज्ञोक्तमार्गानुसारिणो ] जीवानामनुभाग-मत्रस्थाविशेषं तदुपमर्हेन पीडां वा सुष्ठु ' विचिन्तयन्तः पर्यालोचयन्तः अन्नविधौ शुद्धिं 'आहूतवन्तः स्वीकृतवन्तो द्विचत्वारिंशदोपहितेन शुद्धेनाहारेणादारं कृतवन्तो, नतु यथा मत्रतां पिशिताद्यपि पात्रपतितं न दोषायेति, एवंविधं वचोऽपि जैना महर्षयो न माषन्ते । भवन्तः कीदृशाः ? छमपदोपजीविनः, हिंसास्थानोपजीविन इत्यर्थः, न तादृशा जैना मुनयः तेषां हि सुनीनां निर्दोषाहारग्रहणेन काय प्रतिपालनेन तीर्थकुशनुयायी घम्मों ज्ञेय इति गाथार्थः || ३५ || पुनरार्द्रकुमारः कथयति
SR No.090470
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherMotichand Maganchand Choksi
Publication Year1962
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy