SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ साऽऽजीविया पविताऽथिरेणं, सभागओ गणओ भिक्खुमज्झे । आइक्खमाणो बहुजन्नमत्थं न संघयाती अवरेण पुवं ॥ २ ॥ = व्याख्या-येयं बहुजनमध्यगतेन पुष्मगुरुणा धर्मदेशना प्रारब्धा सा आजीविका प्रस्थापिता, एकाकी विहरन् पामरैः परिभूयत इति मत्वा महान् परिकरः कृतः, तदनेन दम्मप्रधानेन आजीविकार्थमिदमारब्धं अस्थिरेण, पूर्वमयं मया सार्द्धमेकाक्यन्त प्रान्ताशनेन शून्यारामदेव कुलादौ वृतिं कल्पितवान् न च तथाभूतानं सिकताकालवनिरास्त्रादं यावजीवं कर्तुम, अतो मां विहाय बहून् शिष्यान् प्रतार्य एवम्भूतेन स्फटाटोपेन विहरतीत्यतो अनवस्थितचित्तः पूर्वचर्यापरित्या नाराचारसमाश्रयणात् । ' सभागतः पर्षदि व्यवस्थितः ' गणओ 'ति ' गणशो ' बहुशो भिक्षूणां मध्यगतो ( बहुजन्यमर्थ - ) बहुजन हितमर्थ कथयन् विहरति एतच्चास्यानुष्ठानं [ पूर्वापरं न सन्दधाति - ] पूर्वापरविरुद्धं, यदि साम्प्रतीयं वृत्तं प्राकारत्रयसिंहासनाशोकवृक्षमामण्डलछत्रचामरादिकं मोक्षाङ्गमभविष्यत्ततो या प्राक्तना चर्या क्लेशबहुलाऽनेन कृता सा क्लेशाय केवलं, अथ निर्जराहेतुका परमार्थभूता ततः साम्प्रतावस्था परप्रतारकत्वाद्दम्भकल्पा, ततः पूर्वोत्तरयोरनुष्ठानयोर्मौनव्रतधर्मदेशनयोः परस्परतो विशेष इति गाथार्थः ॥ २ ॥ अपि च- एतमेवं अदुवा इहि, दोपणमन्नं न समेति जम्हा । पुचि इहि च अणागयं च, एगंतमेवं पडिसंधयाति ॥ ३ ॥
SR No.090470
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherMotichand Maganchand Choksi
Publication Year1962
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy